Atharvaveda 8.6

गर्भदोषनिवारणम्।

8.6.1

१-२६ मातृनामा | मन्त्रोक्ताः, मातृनामा, १५ ब्रह्मणस्पतिः | अनुष्टुप्, २ पुरस्ताद्बृहती, १० त्र्यवसाना षट्-पदा जगती, ११,१२,१४,१६ पथ्यापङ्क्तिः, १५ त्र्यवसाना सप्तपदा शक्वरी, १७ त्र्यवसाना सप्तपदा जगती | यौ ते॑ मा॒तोन्म॒मार्ज॑ जा॒तायाः॑ पति॒वेद॑नौ | दु॒र्णामा॒ तत्र॒ मा गृ॑धद॒लिंश॑ उ॒त व॒त्सपः॑ ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

8.6.1

१-२६ मातृनामा | मन्त्रोक्ताः, मातृनामा, १५ ब्रह्मणस्पतिः | अनुष्टुप्, २ पुरस्ताद्बृहती, १० त्र्यवसाना षट्-पदा जगती, ११,१२,१४,१६ पथ्यापङ्क्तिः, १५ त्र्यवसाना सप्तपदा शक्वरी, १७ त्र्यवसाना सप्तपदा जगती | यौ ते॑ मा॒तोन्म॒मार्ज॑ जा॒तायाः॑ पति॒वेद॑नौ | दु॒र्णामा॒ तत्र॒ मा गृ॑धद॒लिंश॑ उ॒त व॒त्सपः॑ ||

8.6.2

प॒ला॒ला॒नु॒प॒ला॒लौ शर्कुं॒ कोकं॑ मलिम्लु॒चं प॒लीज॑कम् | आ॒श्रेषं॑ व॒व्रिवा॑सस॒मृक्ष॑ग्रीवं प्रमी॒लिन॑म् ||

8.6.3

मा सं वृ॑तो॒ मोप॑ सृप ऊ॒रू माव॑ सृपोऽन्त॒रा | कृ॒णोम्य॑स्यै भेष॒जं ब॒जं दु॑र्णाम॒चात॑नम् ||

8.6.4

दु॒र्णामा॑ च सु॒नामा॑ चो॒भा सं॒वृत॑मिच्छतः | अ॒राया॒नप॑ हन्मः सु॒नामा॒ स्त्रैण॑मिच्छताम् ||

8.6.5

यः कृ॒ष्णः के॒श्यसु॑र स्तम्ब॒ज उ॒त तुण्डि॑कः | अ॒राया॑नस्या मु॒ष्काभ्यां॒ भंस॒सोप॑ हन्मसि ||

8.6.6

अ॒नु॒जि॒घ्रं प्र॑मृ॒शन्तं॑ क्र॒व्याद॑मु॒त रे॑रि॒हम् | अ॒रायां॑छ्वकि॒ष्किणो॑ ब॒जः पि॒ङ्गो अ॑नीनशत् ||

8.6.7

यस्त्वा॒ स्वप्ने॑ नि॒पद्य॑ते॒ भ्राता॑ भू॒त्वा पि॒तेव॑ च | ब॒जस्तान्त्स॑हतामि॒तः क्ली॒बरू॑पांस्तिरी॒टिनः॑ ||

8.6.8

यस्त्वा॑ स्व॒पन्तीं॒ त्सर॑ति॒ यस्त्वा॒ दिप्स॑ति॒ जाग्र॑तीम् | छा॒यामि॑व॒ प्र तान्त्सूर्यः॑ परि॒क्राम॑न्ननीनशत् ||

8.6.9

यः कृ॒णोति॑ मृ॒तव॑त्सा॒मव॑तोकामि॒मां स्त्रिय॑म् | तमो॑षधे॒ त्वं ना॑शया॒स्याः क॒मल॑मञ्जि॒वम् ||

8.6.10

ये शालाः॑ परि॒नृत्य॑न्ति सा॒यं ग॑र्दभना॒दिनः॑ | कु॒सूला॒ ये च॑ कुक्षि॒लाः क॑कु॒भाः क॒रुमाः॒ स्रिमाः॑ | तानो॑षधे॒ त्वं ग॒न्धेन॑ विषू॒चीना॒न् वि ना॑शय ||

8.6.11

ये कु॒कुन्धाः॑ कु॒कूर॑भाः॒ कृत्ती॑र्दू॒र्शानि॒ बिभ्र॑ति | क्ली॒बा इ॑व प्र॒नृत्य॑न्तो॒ वने॒ ये कु॒र्वते॒ घोषं॒ तानि॒तो ना॑शयामसि ||

8.6.12

ये सूर्यं॒ न तिति॑क्षन्त आ॒तप॑न्तम॒मुं दि॒वः | अ॒राया॑न् बस्तवा॒सिनो॑ दु॒र्गन्धीं॒ल्लोहि॑तास्या॒न् मक॑कान् नाशयामसि ||

8.6.13

य आ॒त्मान॑मतिमा॒त्रमंस॑ आ॒धाय॒ बिभ्र॑ति | स्त्री॒णां श्रो॑णिप्रतो॒दिन॒ इन्द्र॒ रक्षां॑सि नाशय ||

8.6.14

ये पूर्वे॑ ब॒ध्वो॒३यन्ति॒ हस्ते॒ शृङ्गा॑णि॒ बिभ्र॑तः | आ॒पा॒के॒स्थाः प्र॑हा॒सिन॑ स्त॒म्बे ये कु॒र्वते॒ ज्योति॒स्तानि॒तो ना॑शयामसि ||

8.6.15

येषां॑ प॒श्चात् प्रप॑दानि पु॒रः पार्ष्णीः॑ पु॒रो मुखा॑ | ख॒ल॒जाः श॑कधूम॒जा उरु॑ण्डा॒ ये च॑ मट्म॒टाः कु॒म्भमु॑ष्का अया॒शवः॑ | तान॒स्या ब्र॑ह्मणस्पते प्रतीबो॒धेन॑ नाशय ||

8.6.16

प॒र्य॒स्ता॒क्षा अप्र॑चङ्कशा अस्त्रै॒णाः स॑न्तु॒ पण्ड॑गाः | अव॑ भेषज पादय॒ य इ॒मां सं॒विवृ॑त्स॒त्यप॑तिः स्वप॒तिं स्त्रिय॑म् ||

8.6.17

उ॒द्ध॒र्षिणं॒ मुनि॑केशं ज॒म्भय॑न्तं मरीमृ॒शम् | उपेष॑न्तमुदु॒म्बलं॑ तु॒ण्डेल॑मु॒त शालु॑डम् | प॒दा प्र वि॑ध्य॒ पार्ष्ण्या॑ स्था॒लीं गौरि॑व स्पन्द॒ना ||

8.6.18

यस्ते॒ गर्भं॑ प्रतिमृ॒शाज्जा॒तं वा॑ मा॒रया॑ति ते | पि॒ङ्गस्तमु॒ग्रध॑न्वा कृ॒णोतु॑ हृदया॒विध॑म् ||

8.6.19

ये अ॒म्नो जा॒तान् मा॒रय॑न्ति॒ सूति॑का अनु॒शेर॑ते | स्त्रीभा॑गान् पि॒ङ्गो ग॑न्ध॒र्वान् वातो॑ अ॒भ्रमि॑वाजतु ||

8.6.20

परि॑सृष्टं धरयतु॒ यद्धि॒तं माव॑ पादि॒ तत् | गर्भं॑ त उ॒ग्रौ र॑क्षतां भेष॒जौ नी॑विभा॒र्यौऽ ||

8.6.21

प॒वी॒न॒सात् त॑ङ्ग॒ल्वा॒३च्छाय॑कादु॒त नग्न॑कात् | प्र॒जायै॒ पत्ये॑ त्वा पि॒ङ्गः परि॑ पातु किमी॒दिनः॑ ||

8.6.22

द्व्याऽस्याच्चतुर॒क्षात् पञ्चपदादनङ्गु॒रेः | वृन्ता॑द॒भि प्र॒सर्प॑तः॒ परि॑ पाहि वरीवृ॒तात् ||

8.6.23

यआ॒मं मां॒सम॒दन्ति॒ पौरु॑षेयं च॒ ये क्र॒विः | गर्भा॒न् खाद॑न्ति केश॒वास्तानि॒तो ना॑शयामसि ||

8.6.24

ये सूर्या॑त् परि॒सर्प॑न्ति स्नु॒षेव॒ श्वशु॑रा॒दधि॑ | ब॒जश्च॒ तेषां॑ पि॒ङ्गश्च॒ हृद॒येऽधि॒ नि वि॑ध्यताम् ||

8.6.25

पिङ्ग॒ रक्ष॒ जाय॑मानं॒ मा पुमां॑सं॒ स्त्रियं॑ क्रन् | आ॒ण्डादो॒ गर्भा॒न्मा द॑भ॒न् बाध॑स्वे॒तः कि॑मी॒दिनः॑ ||

8.6.26

अ॒प्र॒जा॒स्त्वं मार्त॑वत्स॒माद् रोद॑म॒घमा॑व॒यम् | वृ॒क्षादि॑व॒ स्रजं॑ कृ॒त्वाप्रि॑ये॒ प्रति॑ मुञ्च॒ तत् ||