8.7.1
१-२८ अथर्वा | भैषज्यं, आयुष्यं, ओषधयः | अनुष्टुप्, २ उपरिष्टाद् भुरिग्बृहती, ३ पुरउष्णिक्, ४ पञ्चपदा परानुष्टुबतिजगती, ५-६, १०, २५ पथ्यापङ्क्तिः ( ६ विराड् गर्भा भुरिक्) ९ द्विपदार्ची भुरिगनुष्टुप्, १२ पञ्चपदा विराडतिशक्वरी, १४ उपरिष्टान्निचृद् बृहती, २६ निचृत्, २८ भुरिक् | या ब॒भ्रवो॒ याश्च॑ शु॒क्रा रोहि॑णीरु॒त पृश्न॑यः | असि॑क्नीः कृ॒ष्णा ओष॑धीः॒ सर्वा॑ अ॒च्छाव॑दामसि ||