8.5.1
१-२२ शुक्रः | कृत्यादूषणं, मन्त्रोक्तदेवताः | अनुष्टुप्, १,६ उपरिष्टाद्बृहती, २ त्रिपदा विराड् गायत्री, ३ चतुष्पदा भुरिग्जगती, ५ भुरिक्संस्तारपङ्क्तिः, ७-८ ककुम्मती, ९ पुरस्कृतिर्जगती, १० त्रिष्टुप्, ११ पथ्यापङ्क्तिः, १४ त्र्यवसाना षट्-पदा जगती, १५ पुरस्ताद्बृहती, १९ जगतीगर्भा त्रिष्टुप्, २० विराड्गर्भा प्रस्तारपङ्क्तिः, २१ विराड् त्रिष्टुप्, २२ त्र्यवसाना सप्तपदा विराड्गर्भा भुरिक्शक्वरी | अ॒यं प्र॑तिस॒रो म॒णिर्वी॒रो वी॒राय॑ बध्यते | वी॒र्यऽवान्त्सपत्न॒हा शूर॑वीरः परि॒पाणः॑ सुम॒ङ्गलः॑ ||