Atharvaveda 8.2

दीर्घायुःप्राप्तिः।

8.2.1

१-२८ ब्रह्मा | आयुः | त्रिष्टुप्, १-२,७ भुरिक्, ३,२६ आस्तारपङ्क्तिः, ४ प्रस्तारपङ्क्तिः, ६,१५ पथ्यापङ्क्तिः, ८ पुरस्ताज्ज्योतिष्मती जगती, ९ पञ्चपदा जगती, ११ विष्टारपङ्क्तिः, १२,२२,२८ पुरस्ताद्बृहती, १४ त्र्यवसाना षट्-पदा जगती, १९ उपरिष्टाद्बृहती, २१ सतः पङ्कतिः ५,१०,१६-१८,२०,२३-२५,२७ अनुष्टुप् (१७ त्रिपाद्) | आ र॑भस्वे॒माम॒मृत॑स्य॒ श्नुष्टि॒मच्छि॑द्यमाना ज॒रद॑ष्टिरस्तु ते | असुं॑ त॒ आयुः॒ पुन॒रा भ॑रामि॒ रज॒स्तमो॒ मोप॑ गा॒ मा प्र मे॑ष्ठाः ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

8.2.1

१-२८ ब्रह्मा | आयुः | त्रिष्टुप्, १-२,७ भुरिक्, ३,२६ आस्तारपङ्क्तिः, ४ प्रस्तारपङ्क्तिः, ६,१५ पथ्यापङ्क्तिः, ८ पुरस्ताज्ज्योतिष्मती जगती, ९ पञ्चपदा जगती, ११ विष्टारपङ्क्तिः, १२,२२,२८ पुरस्ताद्बृहती, १४ त्र्यवसाना षट्-पदा जगती, १९ उपरिष्टाद्बृहती, २१ सतः पङ्कतिः ५,१०,१६-१८,२०,२३-२५,२७ अनुष्टुप् (१७ त्रिपाद्) | आ र॑भस्वे॒माम॒मृत॑स्य॒ श्नुष्टि॒मच्छि॑द्यमाना ज॒रद॑ष्टिरस्तु ते | असुं॑ त॒ आयुः॒ पुन॒रा भ॑रामि॒ रज॒स्तमो॒ मोप॑ गा॒ मा प्र मे॑ष्ठाः ||

8.2.2

जीव॑तां॒ ज्योति॑र॒भ्येह्य॒र्वाङा त्वा॑ हरामि श॒तशा॑रदाय | अ॒व॒मु॒ञ्चन् मृ॑त्युपा॒शानश॑स्तिं॒ द्राघी॑य॒ आयुः॑ प्रत॒रं ते॑ दधामि ||

8.2.3

वाता॑त् ते प्रा॒णम॑विदं॒ सूर्या॒च्चक्षु॑र॒हं तव॑ | यत् ते॒ मन॒स्त्वयि॒ तद् धा॑रयामि॒ सं वि॒त्स्वाङ्गै॒र्वद॑ जि॒ह्वयाल॑पन् ||

8.2.4

प्रा॒णेन॑ त्वा द्वि॒पदां॒ चतु॑ष्पदाम॒ग्निमि॑व जा॒तम॒भि सं ध॑मामि | नम॑स्ते मृत्यो॒ चक्षु॑षे॒ नमः॑ प्रा॒णाय॑ तेऽकरम् ||

8.2.5

अ॒यं जी॑वतु॒ मा मृ॑ते॒मं समी॑रयामसि | कृ॒णोम्य॑स्मै भेष॒जं मृत्यो॒ मा पुरु॑षं वधीः ||

8.2.6

जी॒व॒लां न॑घारि॒षां जी॑व॒न्तीमोष॑धीम॒हम् | त्रा॒य॒मा॒णां सह॑मानां॒ सह॑स्वतीमि॒ह हु॑वे॒ऽस्मा अ॑रि॒ष्टता॑तये ||

8.2.7

अधि॑ ब्रूहि॒ मा र॑भथाः सृ॒जेमं तवै॒व सन्त्सर्व॑हाया इ॒हास्तु॑ | भवा॑शर्वौ मृ॒डतं॒ शर्म॑ यच्छतमप॒सिध्य॑ दुरि॒तं ध॑त्त॒मायुः॑ ||

8.2.8

अ॒स्मै मृ॑त्यो॒ अधि॑ ब्रूही॒मं द॑य॒स्वोदि॒तो॒३यमे॑तु | अरि॑ष्टः॒ सर्वा॑ङ्गः सु॒श्रुज्ज॒रसा॑ श॒तहा॑यन आ॒त्मना॒ भुज॑मश्नुताम् ||

8.2.9

दे॒वानां॑ हे॒तिः परि॑ त्वा वृणक्तु पा॒रया॑मि त्वा॒ रज॑स॒ उ॑त् त्वा॑ मृ॒त्योर॑पीपरम् | आ॒राद॒ग्निं क्र॒व्यादं॑ नि॒रूहं॑ जी॒वात॑वे ते परि॒धिं द॑धामि ||

8.2.10

यत् ते॑ नि॒यानं॑ रज॒सं मृत्यो॑ अनवध॒र्ष्यऽम् | प॒थ इ॒मं तस्मा॒द् रक्ष॑न्तो॒ ब्रह्मा॑स्मै॒ वर्म॑ कृण्मसि ||

8.2.11

कृ॒णोमि॑ ते प्राणापा॒नौ ज॒रां मृ॒त्युं दी॒र्घमायुः॑ स्व॒स्ति | वै॒व॒स्व॒तेन॒ प्रहि॑तान् यमदू॒तांश्चर॒तोऽप॑ सेधामि॒ सर्वा॑न् ||

8.2.12

आ॒रादरा॑तिं॒ निरृ॑तिं प॒रो ग्राहिं॑ क्र॒व्यादः॑ पिशा॒चान् | रक्षो॒ यत् सर्वं॑ दुर्भू॒तं तत् तम॑ इ॒वाप॑ हन्मसि ||

8.2.13

अ॒ग्नेष्टे॑ प्रा॒णम॒मृता॒दायु॑ष्मतो वन्वे जा॒तवे॑दसः | यथा॒ न रिष्या॑ अ॒मृतः॑ स॒जूरस॒स्तत् ते॑ कृणोमि॒ तदु॑ ते॒ समृ॑ध्यताम् ||

8.2.14

शि॒वे ते॑ स्तां॒ द्यावा॑पृथि॒वी अ॑संता॒पे अ॑भि॒श्रियौ॑ | शं ते॒ सूर्य॒ आ त॑पतु॒ शं वातो॑ वातु ते हृ॒दे | शि॒वा अ॒भि क्ष॑रन्तु॒ त्वापो॑ दि॒व्याः पय॑स्वतीः ||

8.2.15

शि॒वास्ते॑ स॒न्त्वोष॑धय॒ उत् त्वा॑हार्ष॒मध॑रस्या॒ उत्त॑रां पृथि॒वीम॒भि | तत्र॑ त्वादि॒त्यौ र॑क्षतां सूर्याचन्द्र॒मसा॑वु॒भा ||

8.2.16

यत् ते॒ वासः॑ परि॒धानं॒ यां नी॒विं कृ॑णु॒षे त्वम् | शि॒वं ते॑ त॒न्वे॒३तत् कृ॑ण्मः संस्प॒र्शेऽद्रू॑क्ष्णमस्तु ते ||

8.2.17

यत् क्षु॒रेण॑ म॒र्चय॑ता सुते॒जसा॒ वप्ता॒ वप॑सि केशश्म॒श्रु | शुभं॒ मुखं॒ मा न॒ आयुः॒ प्र मो॑षीः ||

8.2.18

शि॒वौ ते॑ स्तां व्रीहिय॒वाव॑बला॒साव॑दोम॒धौ | ए॒तौ यक्ष्मं॒ वि बा॑धेते ए॒तौ मु॑ञ्चतो॒ अंहसः ||

8.2.19

यद॒श्नासि॒ यत् पिब॑सि धा॒न्यंऽ कृ॒ष्याः पयः॑ | यदा॒द्यं॒१ यद॑ना॒द्यं सर्वं॑ ते॒ अन्न॑मवि॒षं कृ॑णोमि ||

8.2.20

अह्ने॑ च त्वा॒ रात्र॑ये चो॒भाभ्यां॒ परि॑ दद्मसि | अ॒राये॑भ्यो जिघ॒त्सुभ्य॑ इ॒मं मे॒ परि॑ रक्षत ||

8.2.21

श॒तं ते॒ऽयुतं॑ हाय॒नान् द्वे यु॒गे त्रीणि॑ च॒त्वारि॑ कृण्मः | इ॒न्द्रा॒ग्नी विश्वे॑ दे॒वास्तेऽनु॑ मन्यन्ता॒महृ॑णीयमानाः ||

8.2.22

श॒रदे॑ त्वा हेम॒न्ताय॑ वस॒न्ताय॑ ग्री॒ष्माय॒ परि॑ दद्मसि | व॒र्षाणि॒ तुभ्यं॑ स्यो॒नानि॒ येषु॒ वर्ध॑न्त॒ ओष॑धीः ||

8.2.23

मृ॒त्युरी॑शे द्वि॒पदां॑ मृ॒त्युरी॑शे॒ चतु॑ष्पदाम् | तस्मा॒त् त्वां मृ॒त्योर्गोप॑ते॒रुद् भ॑रामि॒ स मा बि॑भेः ||

8.2.24

सोऽरिष्ट॒ न म॑रिष्यसि॒ न म॑रिष्यसि॒ मा बि॑भेः | न वै तत्र॑ म्रियन्ते॒ नो य॑न्त्यध॒मं तमः॑ ||

8.2.25

सर्वो॒ वै तत्र॑ जीवति॒ गौरश्वः॒ पुरु॑षः प॒शुः | यत्रे॒दं ब्रह्म॑ क्रि॒यते॑ परि॒धिर्जीव॑नाय॒ कम् ||

8.2.26

परि॑ त्वा पातु समा॒नेभ्यो॑ऽभिचा॒रात् सब॑न्धुभ्यः | अम॑म्रिर्भवा॒मृतो॑ऽतिजी॒वो मा ते॑ हासिषु॒रस॑वः॒ शरी॑रम् ||

8.2.27

ये मृ॒त्यव॒ एक॑शतं॒ या ना॒ष्ट्रा अ॑तिता॒र्याः | मु॒ञ्चन्तु॒ तस्मा॒त् त्वां दे॒वा अ॒ग्नेर्वै॑श्वान॒रा दधि॑ ||

8.2.28

अ॒ग्नेः शरी॑रमसि पारयि॒ष्णु र॑क्षो॒हासि॑ सपत्न॒हा | अथो॑ अमीव॒चात॑नः पू॒तुद्रु॒र्नाम॑ भेष॒जम् ||