8.1.1
१-२१ ब्रह्मा | आयुः | त्रिष्टुप्, १ पुरोबृहती त्रिष्टुप्, २-३, १७-२१ अनुष्टुप्, ४,९,१५-१६ प्रस्तारपङ्क्तिः, ७ त्रिपदा विराड् गायत्री, ८ विराट् पथ्याबृहती, १२ त्र्यवसाना पञ्चपदा जगती, १३ त्रिपदा भुरिङ्महाबृहती, १४ एकावसाना द्विपदा साम्नी भुरिग्बृहती | अन्त॑काय मृ॒त्यवे॒ नमः॑ प्रा॒णा अ॑पा॒ना इ॒ह ते॑ रमन्ताम् | इ॒हायम॑स्तु॒ पुरु॑षः स॒हासु॑ना॒ सूर्य॑स्य भा॒गे अ॒मृत॑स्य लो॒के ||