8.3.1
१-२६ चातनः | अग्निः | त्रिष्टुप्, ७,१२,१४-१५,१७,२१ भुरिक्, २५ पञ्चपदा बृहतीगर्भा जगती २२-२३ अनुष्टुप्, २६ गायत्री | र॒क्षो॒हणं॑ वा॒जिन॒मा जि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑ | शिशा॑नो अ॒ग्निः क्रतु॑भिः॒ समि॑द्धः॒ स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त॑म् ||