Atharvaveda 6.52

भैषज्यम्।

6.52.1

१-३ भागलिः | १ सूर्यः, २ गावः, ३ भेषजम् | अनुष्टुप् | उत् सूर्यो॑ दि॒व ए॑ति पु॒रो रक्षां॑सि नि॒जूर्व॑न् | आ॒दि॒त्यः पर्वतेभ्यो वि॒श्वदृ॑ष्टो अदृष्ट॒हा ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

6.52.1

१-३ भागलिः | १ सूर्यः, २ गावः, ३ भेषजम् | अनुष्टुप् | उत् सूर्यो॑ दि॒व ए॑ति पु॒रो रक्षां॑सि नि॒जूर्व॑न् | आ॒दि॒त्यः पर्वतेभ्यो वि॒श्वदृ॑ष्टो अदृष्ट॒हा ||

6.52.2

नि गावो॑ गो॒ष्ठे अ॑सद॒न् नि मृ॒गासो॑ अविक्षत | न्यू॒३र्मयो॑ न॒दीनं॒ न्य॑१दृष्टा॑ अलिप्सत ||

6.52.3

आ॒यु॒र्ददं॑ विप॒श्चितं॑ श्रु॒तां कण्व॑स्य वी॒रुध॑म् | आभा॑रिषं वि॒श्वभे॑षजीम॒स्यादृष्टा॒न् नि श॑मयत् ||