Atharvaveda 6.51

एनोनाशनम्।

6.51.1

१-३ शन्तातिः | आपः, ३ वरुणः | १ गायत्री, २ त्रिष्टुप्, ३ जगती | वा॒योः पू॒तः प॒वित्रे॑ण प्र॒त्यङ् सोमो॒ अति॑ द्रु॒तः | इन्द्र॑स्य॒ युजः॒ सखा॑ ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

6.51.1

१-३ शन्तातिः | आपः, ३ वरुणः | १ गायत्री, २ त्रिष्टुप्, ३ जगती | वा॒योः पू॒तः प॒वित्रे॑ण प्र॒त्यङ् सोमो॒ अति॑ द्रु॒तः | इन्द्र॑स्य॒ युजः॒ सखा॑ ||

6.51.2

आपो॑ अ॒स्मान् मा॒तरः॑ सूदयन्तु घृ॒तेन॑ नो घृ॒तप्वः पुनन्तु | विश्वं॒ हि रि॒प्रं प्र॒वह॑न्ति दे॒वीरुदिदा॑भ्यः॒ शुचि॒रा पू॒त ए॑मि ||

6.51.3

यत् किं चे॒दं व॑रुण॒ दैव्ये॒ जने॑ऽभिद्रो॒हं म॑नु॒ष्या॒३श्चर॑न्ति | अचि॑त्त्या॒ चेत् तव॒ धर्मा॑ युयोपि॒म मा न॒स्तस्मा॒देन॑सो देव रीरिषः ||