6.53.1
१-३ बृहच्छुक्रः | १ द्यौः, पृथिवि, शुक्रः, सोमः, अग्निः, वायुः, सविता, १ भगः, २ वैश्वानरः, ३ त्वष्टा | त्रिष्टुप्, १ जगती | द्यौश्च॑ म इ॒दं पृ॑थि॒वी च॒ प्रचे॑तसौ शु॒क्रो बृ॒हन् दक्षि॑णया पिपर्तु | अनु॑ स्व॒धा चि॑कितां॒ सोमो॑ अ॒ग्निर्वा॒युर्नः॑ पातु सवि॒ता भग॑श्च ||