5.7.1
१-१० अथर्वा | बहुदैवत्यम्, १-३, ६-१० अरातयः, ४-५ सरस्वती | अनुष्टुप्, १ विराड्गर्भा प्रस्तारपङ्क्तिः, ४ पथ्याबृहती, ६ प्रस्तारपङ्क्तिः | आ नो॑ भर॒ मा परि॑ ष्ठा अराते॒ मा नो॑ रक्षी॒र्दक्षि॑णां नी॒यमा॑नाम् | नमो॑ वी॒र्त्साया॒ अस॑मृद्धये॒ नमो॑ अ॒स्त्वरा॑तये ||