5.8.1
१-९ अथर्वा | नानादैवत्यं, १,२ अग्निः, ३ विश्वे देवाः, ४-९ इन्द्रः | अनुष्टुप्, २ त्र्यवसाना षट्-पदा जगती, ३-४ भुरिक्पथ्यापङ्क्तिः, ६ आस्तारपङ्क्तिः, ७ द्व्युष्णिग्गर्भा पथ्यापङ्क्तिः, ९ त्र्यवसाना षट्-पदा युष्णिग्गर्भा जगती | वै॒क॒ङ्क॒तेने॒ध्मेन॑ दे॒वेभ्य॒ आज्यं॑ वह | अग्ने॒ ताँ इ॒ह मा॑दय॒ सर्व॑ आ य॑न्तु मे॒ हव॑म् ||