5.6.1
१-१४ अथर्वा | सोमरुद्रौ | १ ब्रह्म, २ कर्माणि, ३-४ रुद्रगणाः, ५-८ सोमारुद्रौ, ९ हेतिः, १०-१४ सर्वात्मा रुद्रः | त्रिष्टुप्, २ अनुष्टुप्, ३ जगती, ४ अनुष्टुबुष्णिक्-त्रिष्टुब्गर्भा पञ्चपदा जगती, ५-७ त्रिपदा विराण्नाम गायत्री, ८ एकावसाना द्विपदार्च्यनुष्टुप्, १० प्रस्तारपङ्क्तिः, ११-१३ पङ्क्तिः, १४ स्वराट्-पङ्क्तिः | ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द् वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः | स बु॒ध्न्याऽ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ वि वः॑ ||