5.28.1
१-१४ अथर्वा | त्रिवृत्, अग्न्यादयः | त्रिष्टुप्, ६ पञ्चपदातिशक्वरी, ७,९-१०,१२ ककुम्मत्यनुष्टुप् १३ पुरउष्णिक् | नव॑ प्रा॒णान् न॒वभिः॒ सं मि॑मीते दीर्घायु॒त्वाय॑ श॒तशा॑रदाय | हरि॑ते॒ त्रीणि॑ रज॒ते त्रीण्यय॑सि॒ त्रीणि॒ तप॒सावि॑ष्ठितानि ||
दीर्घायुः।

1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
5.28.1
१-१४ अथर्वा | त्रिवृत्, अग्न्यादयः | त्रिष्टुप्, ६ पञ्चपदातिशक्वरी, ७,९-१०,१२ ककुम्मत्यनुष्टुप् १३ पुरउष्णिक् | नव॑ प्रा॒णान् न॒वभिः॒ सं मि॑मीते दीर्घायु॒त्वाय॑ श॒तशा॑रदाय | हरि॑ते॒ त्रीणि॑ रज॒ते त्रीण्यय॑सि॒ त्रीणि॒ तप॒सावि॑ष्ठितानि ||
5.28.2
अ॒ग्निः सूर्य॑श्च॒न्द्रमा॒ भूमि॒रापो॒ द्यौर॒न्तरि॑क्षं प्र॒दिशो॑ दिश॑श्च | आ॒र्त॒वा ऋ॒तुभिः॑ संविदा॒ना अ॒नेन॑ मा त्रि॒वृता॑ पारयन्तु ||
5.28.3
त्रयः॒ पोषा॑स्त्रि॒वृति॑ श्रयन्ताम॒नक्तु॑ पू॒षा पय॑सा घृ॒तेन॑ | अन्न॑स्य भू॒मा पुरु॑षस्य भू॒मा भू॒मा प॑शू॒नां त इ॒ह श्र॑यन्ताम् ||
5.28.4
इ॒ममा॑दित्या॒ वसु॑ना॒ समु॑क्षते॒मम॑ग्ने वर्धय ववृधा॒नः | इ॒ममि॑न्द्र॒ सं सृ॑ज वी॒र्येऽणा॒स्मिन् त्रि॒वृच्छ्र॑यतां पोषयि॒ष्णु ||
5.28.5
भूमि॑ष्ट्वा पातु॒ हरि॑तेन विश्व॒भृद॒ग्निः पि॑प॒र्त्वय॑सा स॒जोषाः॑ | वी॒रुद्भि॑ष्टे अर्जु॑नं संविदा॒नं दक्षं॑ दधातु सुमन॒स्यमा॑नम् ||
5.28.6
त्रे॒धा जा॒तं जन्म॑ने॒दं हिर॑ण्यम॒ग्नेरेकं॑ प्रि॒यत॑मं बभूव॒ सोम॒स्यैकं॑ हिंसि॒तस्य॒ परा॑पतत् | अ॒पामेकं॑ वे॒धसां॒ रेत॑ आहु॒स्तत् ते हिर॑ण्यं त्रि॒वृद॒स्त्वायु॑षे ||
5.28.7
त्र्या॒यु॒षं ज॒मद॑ग्नेः क॒श्यप॑स्य त्र्यायु॒षम् | त्रे॒धामृत॑स्य॒ चक्ष॑णं॒ त्रीण्यायूं॑षि ते ऽकरम् ||
5.28.8
त्रयः॑ सुप॒र्णास्त्रि॒वृता॒ यदाय॑न्नेकाक्ष॒रम॑भिसं॒भूय॑ श॒क्राः | प्रत्यौ॑हन् मृ॒त्युम॒मृते॑न सा॒कम॑न्त॒र्दधा॑ना दुरि॒तानि॑ विश्वा॑ ||
5.28.9
दि॒वस्त्वा॑ पातु॒ हरि॑तं॒ मध्या॑त् त्वा पा॒त्वर्जु॑नम् | भूम्या॑ अय॒स्मयं॑ पातु॒ प्रागा॑द् देवपु॒रा अ॒यम् ||
5.28.10
इ॒मास्ति॒स्रो दे॑वपु॒रास्तास्त्वा॑ रक्षन्तु स॒र्वतः॑ | तास्त्वं बिभ्र॑द् वर्च॒स्व्युत्त॑रो द्विष॒तां भ॑व ||
5.28.11
पुरं॑ दे॒वाना॑म॒मृतं॒ हिर॑ण्यं॒ य आ॑बे॒धे प्र॑थ॒मो दे॒वो अग्रे॑ | तस्मै॒ नमो॒ दश॒ प्राचीः॑ कृणो॒म्यनु॑ मन्यतां त्रि॒वृदा॒बधे॑ मे ||
5.28.12
आ त्वा॑ चृतत्वर्य॒मा पू॒षा बृह॒स्पतिः॑ | अह॑र्जातस्य॒ यन्नाम॒ तेन॒ त्वाति॑ चृतामसि ||
5.28.13
ऋ॒तुभि॑ष्ट्वार्त॒वैरायु॑षे॒ वर्च॑से त्वा | सं॒व॒त्स॒रस्य॒ तेज॑सा॒ तेन॒ संह॑नु कृण्मसि ||
5.28.14
घृ॒तादुल्लु॑प्तं॒ मधु॑ना॒ सम॑क्तं भूमिदृं॒हमच्यु॑तं पारयि॒ष्णु | भि॒न्दत् स॒पत्ना॒नध॑रांश्च कृ॒ण्वदा मा॑ रोह मह॒ते सौभ॑गाय ||