5.27.1
१-१२ ब्रह्म | अग्निः | १ बृहतीगर्भा त्रिष्टुप्, २ द्विपदा साम्नी भुरिगनुष्टुप्, ३ द्विपदार्ची बृहती, ४ द्विपदा साम्नी भुरिग्बृहती, ५ द्विपदा साम्नी त्रिष्टुप्, ६ द्विपदा विराण्नाम गायत्री, ७ द्विपदा साम्नी बृहती, ७ संस्तारपङ्क्तिः, ९ षट्-पदानुष्टुब्गर्भा परातिजगती, १०-१२ पुरउष्णिक् (२-७ एकावसाना) | ऊ॒र्ध्वा अ॑स्य स॒मिधो॑ भवन्त्यू॒र्ध्वा शु॒क्रा शो॒चीष्य॒ग्नेः | द्यु॒मत्त॑मा सु॒प्रती॑कः॒ ससू॑नु॒स्तनू॒नपा॒दसु॑रो॒ भूरि॑पाणिः ||