5.29.1
१-१५ चातनः | जातवेदाः, मन्त्रोक्ताः | त्रिष्टुप्, ३ त्रिपदा विराण्नाम गायत्री, ५ पुरोऽतिजगती विराड्-जगती,१२-१५ अनुष्टुप् ( १२ भुरिक्, १४ चतुष्पदा पराबृहती ककुम्मती | पु॒रस्ता॑द् यु॒क्तो व॑ह जातवे॒दोऽग्ने॑ वि॒द्धि क्रि॒यमा॑णं॒ यथे॒दम् | त्वं भि॒षग् भे॑ष॒जस्या॑सि क॒र्ता त्वया॒ गामश्वं॒ पुरु॑षं सनेम ||