Atharvaveda 5.26

नवशालायां घृतहोमः।

5.26.1

१२ ब्रह्म | वास्तोष्पतिः, १ अग्निः, २ सविता, ३,११ इन्द्रः, ४ निविदः, ५ मरुतः, ६ अदितिः, ७ विष्णुः, ८ त्वष्टा, ९ भगः, १० सोमः, १२ अश्विनौ, बृहस्पतिः | १, ५ द्विपदार्षी उष्णिक्, २,४,६,७,८,१०,११ द्विपदा प्राजापत्या बृहती, ३ त्रिपदा विराड् गायत्री, ९ त्रिपदा पिपीलिकमध्या पुरउष्णिक्,(१-११ एकावसाना) १२ परातिशक्वरपी चतुष्पदा जगती | यजूं॑षि य॒ज्ञे स॒मिधः॒ स्वाहा॒ग्निः प्र॑वि॒द्वानि॒ह वो॑ युनक्तु ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

5.26.1

१२ ब्रह्म | वास्तोष्पतिः, १ अग्निः, २ सविता, ३,११ इन्द्रः, ४ निविदः, ५ मरुतः, ६ अदितिः, ७ विष्णुः, ८ त्वष्टा, ९ भगः, १० सोमः, १२ अश्विनौ, बृहस्पतिः | १, ५ द्विपदार्षी उष्णिक्, २,४,६,७,८,१०,११ द्विपदा प्राजापत्या बृहती, ३ त्रिपदा विराड् गायत्री, ९ त्रिपदा पिपीलिकमध्या पुरउष्णिक्,(१-११ एकावसाना) १२ परातिशक्वरपी चतुष्पदा जगती | यजूं॑षि य॒ज्ञे स॒मिधः॒ स्वाहा॒ग्निः प्र॑वि॒द्वानि॒ह वो॑ युनक्तु ||

5.26.2

यु॒नक्तु॑ दे॒वः स॑वि॒ता प्र॑जा॒नन्न॒स्मिन् य॒ज्ञे म॑हि॒षः स्वाहा॑ ||

5.26.3

इन्द्र॑ उक्थाम॒दान्य॒स्मिन् य॒ज्ञे प्र॑वि॒द्वान् यु॑नक्तु सु॒युजः॒ स्वाहा॑ ||

5.26.4

प्रै॒षा य॒ज्ञे नि॒विदः॒ स्वाहा॑ शि॒ष्टाः पत्नी॑भिर्वहते॒ह यु॒क्ताः ||

5.26.5

छन्दां॑सि य॒ज्ञे म॑रुतः॒ स्वाहा॑ मा॒तेव॑ पु॒त्रं पि॑पृते॒ह यु॒क्ताः ||

5.26.6

एयम॑गन् ब॒र्हिषा॒ प्रोक्ष॑णीभिर्य॒ज्ञं त॑न्वा॒नादि॑तिः॒ स्वाहा॑ ||

5.26.7

विष्णु॑र्युनक्तु बहु॒धा तपां॑स्य॒स्मिन् य॒ज्ञे सु॒युजः॒ स्वाहा॑ ||

5.26.8

त्वष्टा॑ युनक्तु बहु॒धा नु रू॒पा अ॒स्मिन् य॒ज्ञे सु॒युजः॒ स्वाहा॑ ||

5.26.9

भगो॑ युनक्त्वा॒शिषो॒ न्व॑१स्मा अ॒स्मिन् य॒ज्ञे प्र॑वि॒द्वान् यु॑नक्तु सु॒युजः॒ स्वाहा॑ ||

5.26.10

सोमो॑ युनक्तु बहु॒धा पयां॑स्य॒स्मिन् य॒ज्ञे सु॒युजः॒ स्वाहा॑ ||

5.26.11

इन्द्रो॑ युनक्तु बहु॒धा वी॒ऽर्याण्य॒स्मिन् य॒ज्ञे सु॒युजः॒ स्वाहा॑ ||

5.26.12

अश्वि॑ना॒ ब्रह्म॒णा या॑तम॒र्वाञ्चौ॑ वषट्का॒रेण॑ य॒ज्ञं व॒र्धय॑तौ | बृह॑स्पते॒ ब्रह्म॒णा या॑ह्य॒र्वाङ् य॒ज्ञो अ॒यं स्वऽरि॒दं यज॑मानाय॒ स्वाहा॑ ||