Atharvaveda 4.39

संनति

4.39.1

१-१० अङ्गिराः, ९-१० ब्रह्म च | १-२ पृथिव्यग्नी, २-४ वाय्वन्तरिक्षे, ५-६ दिवादित्यौ, ७-८ दिक्-चन्द्रमसः, ९-१० जातवेदसोऽग्निः | संनतिः | पङ्क्तिः, १,२,५,७ त्रिपदा महाबृहती, २,४,६,८ संस्तारपङ्क्तिः, ९-१० त्रिष्टुप् | पृ॒थि॒व्याम॒ग्नये॒ सम॑नम॒न्त्स आ॑र्ध्नोत् | यथा॑ पृथि॒व्याम॒ग्नये॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

4.39.1

१-१० अङ्गिराः, ९-१० ब्रह्म च | १-२ पृथिव्यग्नी, २-४ वाय्वन्तरिक्षे, ५-६ दिवादित्यौ, ७-८ दिक्-चन्द्रमसः, ९-१० जातवेदसोऽग्निः | संनतिः | पङ्क्तिः, १,२,५,७ त्रिपदा महाबृहती, २,४,६,८ संस्तारपङ्क्तिः, ९-१० त्रिष्टुप् | पृ॒थि॒व्याम॒ग्नये॒ सम॑नम॒न्त्स आ॑र्ध्नोत् | यथा॑ पृथि॒व्याम॒ग्नये॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु ||

4.39.2

पृ॒थि॒वी धे॒नुस्तस्या॑ अ॒ग्निर्व॒त्सः | सा मे॒ऽग्निना॑ व॒त्सेनेष॒मूर्जं॒ कामं॑ दुहाम् | आयुः॑ प्रथ॒मं प्र॒जां पोषं॑ र॒यिं स्वाहा॑ ||

4.39.3

अ॒न्तरि॑क्षे वा॒यवे॒ सम॑नम॒न्त्स आ॑र्ध्नोत् | यथा॒न्तरि॑क्षे वा॒यवे॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु ||

4.39.4

अ॒न्तरि॑क्षं धे॒नुस्तस्या॑ वा॒युर्व॒त्सः | सा मे॑ वा॒युना॑ व॒त्सेनेष॒मूर्जं॒ कामं॑ दुहाम् | आयुः॑ प्रथ॒मं प्र॒जां पोषं॑ र॒यिं स्वाहा॑ ||

4.39.5

दि॒व्याऽदि॒त्याय॒ सम॑नम॒न्त्स आ॑र्ध्नोत् | यथा॑ दि॒व्याऽदि॒त्याय॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु ||

4.39.6

द्यैर्धे॒नुस्तस्या॑ आदि॒त्यो व॒त्सः | सा म॑ आदि॒त्येन॑ व॒त्सेने॑ष॒मूर्जं॒ कामं॑ दुहाम् | आयुः॑ प्रथ॒मं प्र॒जां पोषं॑ र॒यिं स्वाहा॑ ||

4.39.7

दि॒क्षु च॒न्द्राय॒ सम॑नम॒न्त्स आ॑र्ध्नोत् | यथा॑ दि॒क्षु च॒न्द्राय॑ स॒मन॑मन्ने॒वा मह्यं॑ सं॒नमः॒ सं न॑मन्तु ||

4.39.8

दिशो॑ धे॒नव॒स्तासां॑ च॒न्द्रो व॒त्सः | ता मे॑ च॒न्द्रेण॑ व॒त्सेनेष॒मूर्जं॒ कामं॑ दुहाम् | आयुः॑ प्रथ॒मं प्र॒जां पोषं॑ र॒यिं स्वाहा॑ ||

4.39.9

अ॒ग्नाव॒ग्निश्च॑रति॒ प्रवि॑ष्ट॒ ऋषी॑णां पु॒त्रो अ॑भिशस्ति॒पा उ॑ | न॒म॒स्का॒रेण॒ नम॑सा ते जुहोमि॒ मा दे॒वानां॑ मिथु॒या क॑र्म भा॒गम् ||

4.39.10

हृ॒दा पू॒तं मन॑सा जातवेदो॒ विश्वा॑नि देव व॒युना॑नि वि॒द्वान् | स॒प्तास्या॑नि॒ तव॑ जातवेद॒स्तेभ्यो॑ जुहोमि॒ स जु॑षस्व ह॒व्यम् ||