4.38.1
१-७ बादरायणिः | १-४ अप्सरसः, ५-७ ऋषभः | अनुष्टुप्, ३ षट् पदा त्र्यवसाना जगती, ५ भुरिगत्यष्टिः,…. त्रिष्टुप्,७ त्र्यवसाना पञ्चपदानुष्टुब्गर्भा पुरउपरिष्टाज्ज्योतिष्मती जगती | उ॒द्भि॒न्द॒तीं सं॒जय॑न्तीमप्स॒रां सा॑धुदे॒विनी॑म् | ग्लहे॑ कृ॒तानि॑ कृण्वा॒नाम॑प्स॒रां तामि॒ह हु॑वे ||