Atharvaveda 4.40

शत्रुनाशनम्।

4.40.1

१-८ शुक्रः | ब्रह्म, १ अग्निः, २ यमः, ३ वरुणः, ४ सोमः, ५ भूमिः, ६ वायुः, ७ सूर्यः, ९ दिशः | त्रिष्टुप्, २ जगती, ८ पुरोऽतिशक्वरी पादयुग्जगती | ये पु॒रस्ता॒ज्जुह्व॑ति जातवेदः॒ प्राच्या॑ दि॒शोऽभि॒दास॑न्त्य॒स्मान् | अ॒ग्निमृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान् प्रतिस॒रेण॑ हन्मि ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

4.40.1

१-८ शुक्रः | ब्रह्म, १ अग्निः, २ यमः, ३ वरुणः, ४ सोमः, ५ भूमिः, ६ वायुः, ७ सूर्यः, ९ दिशः | त्रिष्टुप्, २ जगती, ८ पुरोऽतिशक्वरी पादयुग्जगती | ये पु॒रस्ता॒ज्जुह्व॑ति जातवेदः॒ प्राच्या॑ दि॒शोऽभि॒दास॑न्त्य॒स्मान् | अ॒ग्निमृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान् प्रतिस॒रेण॑ हन्मि ||

4.40.2

ये द॑क्षिण॒तो जुह्व॑ति जातवेदो॒ दक्षि॑णाया दि॒शोऽभि॒दास॑न्त्य॒स्मान् | य॒ममृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान् प्रतिस॒रेण॑ हन्मि ||

4.40.3

ये प॒श्चाज्जुह्व॑ति जातवेदः प्र॒तीच्या॑ दि॒शोऽभि॒दास॑न्त्य॒स्मान् | वरु॑णमृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान् प्रतिस॒रेण॑ हन्मि ||

4.40.4

य उ॑त्तर॒तो जुह्व॑ति जातवेद॒ उदी॑च्या दि॒शोऽभि॒दास॑न्त्य॒स्मान् | सोम॑मृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान् प्रतिस॒रेण॑ हन्मि ||

4.40.5

ये॒३धस्ता॒ज्जुह्व॑ति जातवेदो ध्रु॒वाया॑ दि॒शोऽभिदास॑न्त्य॒स्मान् | भूमि॑मृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान् प्रतिस॒रेण॑ हन्मि ||

4.40.6

ये॒३ऽन्तरि॑क्षा॒ज्जुह्व॑ति जातवेदो व्य॒ध्वाया॑ दि॒शोऽभि॒दास॑न्त्य॒स्मान् | वा॒युमृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान् प्रतिस॒रेण॑ हन्मि ||

4.40.7

य उ॒परि॑ष्टा॒ज्जुह्व॑ति जातवेद ऊ॒र्ध्वाया॑ दि॒शोऽभि॒दास॑न्त्य॒स्मान् | सूर्य॑मृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान् प्रतिस॒रेण॑ हन्मि ||

4.40.8

ये दि॒शाम॑न्तर्दे॒शेभ्यो॒ जुह्व॑ति जातवेदः सर्वा॑भ्यो दि॒ग्भ्योऽभि॒दास॑न्त्य॒स्मान् | ब्रह्म॒र्त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान् प्रतिस॒रेण॑ हन्मि ||