Atharvaveda 4.37

कृमिनाशनम्।

4.37.1

१२ बादरायणिः | अजशृङ्गी, १ अप्सरसः, १-२, ६-१० औषधी अजशृङ्गी, ३-५ अप्सरसः, ७-१२ गन्धर्वाप्सरसः | अनुष्टुप्, ३ त्र्यवसाना षट् पदा त्रिष्टुप्, ५ प्रस्तारपङ्क्तिः, ७ परोष्णिक्, ११ षट् पदा जगती, १२ निचृत् | त्वया॒ पूर्व॒मथ॑र्वाणो ज॒घ्नू रक्षां॑स्योषधे | त्वया॑ जघान क॒श्यप॒स्त्वया॒ कण्वो॑ अ॒गस्त्यः॑ ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

4.37.1

१२ बादरायणिः | अजशृङ्गी, १ अप्सरसः, १-२, ६-१० औषधी अजशृङ्गी, ३-५ अप्सरसः, ७-१२ गन्धर्वाप्सरसः | अनुष्टुप्, ३ त्र्यवसाना षट् पदा त्रिष्टुप्, ५ प्रस्तारपङ्क्तिः, ७ परोष्णिक्, ११ षट् पदा जगती, १२ निचृत् | त्वया॒ पूर्व॒मथ॑र्वाणो ज॒घ्नू रक्षां॑स्योषधे | त्वया॑ जघान क॒श्यप॒स्त्वया॒ कण्वो॑ अ॒गस्त्यः॑ ||

4.37.2

त्वया॑ व॒यम॑प्स॒रसो॑ गन्ध॒र्वांस्चा॑तयामहे | अज॑शृ॒ङ्ग्यज॒ रक्षः॒ सर्वा॑न् ग॒न्धेन॑ नाशय ||

4.37.3

न॒दीं य॑न्त्वप्स॒रसो॒ऽपां ता॒रम॑वश्व॒सम् | गु॒ल्गु॒लूः पीला॑ नल॒द्यौ॒३क्षग॑न्धिः प्रमन्द॒नी | तत् परे॑ताप्सरसः॒ प्रति॑बुद्धा अभूतन ||

4.37.4

यत्रा॑श्व॒त्था न्य॒ग्रोधा॑ महावृ॒क्षाः शि॑ख॒ण्डिनः॑ | तत् परे॑ताप्सरसः॒ प्रति॑बुद्धा अभूतन ||

4.37.5

यत्र॑ वः प्रे॒ङ्खा हरि॑ता॒ अर्जु॑ना उ॒त यत्रा॑घा॒ताः क॑र्क॒र्यः सं॒वद॑न्ति | तत् परे॑ताप्सरसः॒ प्रति॑बुद्धा अभूतन ||

4.37.6

एयम॑ग॒न्नोष॑धीनां वी॒रुधां॑ वी॒र्याऽवती | अ॒ज॒शृ॒ङ्ग्यऽराट॒की ती॑क्ष्णशृ॒ङ्गी व्यृऽषतु ||

4.37.7

आ॒नृत्य॑तः शिख॒ण्डिनो॑ गन्ध॒र्वस्या॑प्सराप॒तेः | भि॒नद्मि॑ मु॒ष्कावपि॑ यामि॒ शेपः॑ ||

4.37.8

भी॒मा इन्द्र॑स्य हे॒तयः॑ श॒तमृ॒ष्टीर॑य॒स्मयीः॑ | ताभि॑र्हविर॒दान् ग॑न्ध॒र्वान॑वका॒दान् व्यृऽषतु ||

4.37.9

भी॒मा इन्द्र॑स्य हे॒तयः॑ श॒तमृ॒ष्टीर्हि॑र॒ण्ययीः॑ | ताभि॑र्हविर॒दान् ग॑न्ध॒र्वान॑वका॒दान् व्युऽषतु ||

4.37.10

अ॒व॒का॒दान॑भिशो॒चान॒प्सु ज्यो॑तय माम॒कान् | पि॒शा॒चान्त्सर्वा॑नोषधे॒ प्र मृ॑णीहि॒ सह॑स्व च ||

4.37.11

स्वेवैकः॑ क॒पिरि॒वैकः॑ कुमा॒रः स॑र्वकेश॒कः | प्रियो दृश इ॑व भू॒त्वा ग॑न्ध॒र्वः स॑चते॒ स्त्रिय॑स्त॑मि॒तो ना॑शयामसि॒ ब्रह्म॑णा वी॒र्याऽवता ||

4.37.12

जा॒या इद् वो॑ अप्स॒रसो॒ गन्ध॑र्वाः॒ पत॑यो यू॒यम् | अप धावतामर्त्या॒ मर्त्या॒न् मा स॑चध्वम् ||