4.10.1
१-७ अथर्वा | शङ्खमणिः, कृशनः | अनुष्टुप्, ६ पथ्यापङ्क्तिः, ७ पञ्चपदा परानुष्टुप्शक्वरी | वाता॑ज्जा॒तो अ॒न्तरि॑क्षाद् वि॒द्युतो॒ ज्योति॑ष॒स्परि | स नो॑ हिरण्य॒जाः श॒ङ्खः कृश॑नः पा॒त्वंह॑सः ||
शङ्खमणिः।
4.10.1
१-७ अथर्वा | शङ्खमणिः, कृशनः | अनुष्टुप्, ६ पथ्यापङ्क्तिः, ७ पञ्चपदा परानुष्टुप्शक्वरी | वाता॑ज्जा॒तो अ॒न्तरि॑क्षाद् वि॒द्युतो॒ ज्योति॑ष॒स्परि | स नो॑ हिरण्य॒जाः श॒ङ्खः कृश॑नः पा॒त्वंह॑सः ||
1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
4.10.1
१-७ अथर्वा | शङ्खमणिः, कृशनः | अनुष्टुप्, ६ पथ्यापङ्क्तिः, ७ पञ्चपदा परानुष्टुप्शक्वरी | वाता॑ज्जा॒तो अ॒न्तरि॑क्षाद् वि॒द्युतो॒ ज्योति॑ष॒स्परि | स नो॑ हिरण्य॒जाः श॒ङ्खः कृश॑नः पा॒त्वंह॑सः ||
4.10.2
यो अ॑ग्र॒तो रो॑च॒नानां॑ समु॒द्रादधि॑ जज्ञि॒षे | श॒ङ्खेन॑ ह॒त्वा रक्षां॑स्य॒त्त्रिणो॒ वि ष॑हामहे ||
4.10.3
श॒ङ्खेनामी॑वा॒मम॑तिं श॒ङ्खेनो॒त सदान्वाः॑ | श॒ङ्खो नो॑ वि॒श्वभे॑षजः॒ कृश॑नः पा॒त्वंह॑सः ||
4.10.4
दि॒वि जा॒तः स॑मुद्र॒जः सि॑न्धु॒तस्पर्याभृ॑तः | स नो॑ हिरण्य॒जाः श॒ङ्ख आ॑युष्प्र॒तर॑णो म॒णिः ||
4.10.5
स॒मु॒द्राज्जा॒तो म॒णिर्वृ॒त्राज्जा॒तो दि॑वाक॒रः | सो अ॒स्मान्त्स॒र्वतः॑ पातु हे॒त्या दे॑वासु॒रेभ्यः॑ ||
4.10.6
हिर॑ण्याना॒मेको॑ऽसि॒ सोमा॒त् त्वमधि॑ जज्ञिषे | रथे॒ त्वम॑सि दर्श॒त॑ इ॑षु॒धौ रो॑च॒नस्त्वं प्र ण॒ आयूं॑षि तारिषत् ||
4.10.7
दे॒वाना॒मस्थि॒ कृश॑नं बभूव॒ तदा॑त्म॒न्वच्च॑रत्य॒प्स्व॑१न्तः | तत् ते॑ बध्ना॒म्यायु॑षे॒ वर्च॑से॒ बला॑य दीर्घायु॒त्वाय॑ श॒तशा॑रदाय कार्श॒नस्त्वा॒भि र॑क्षतु ||