4.11.1
१-१२ भृग्वङ्गिराः | अनड्वान्, इन्द्रः | त्रिष्टुप्; १, ४ जगति, २ भुरिक्, ७ त्र्यवसाना षट् पदानुष्टुब्गर्भोपरिष्टज्जागतानिचृच्छक्वरी, ८-१२ अनुष्टुप् | अ॒न॒ड्वान् दा॑धार पृथि॒वीमु॒त द्याम॑न॒ड्वान् दा॑धारो॒र्व१न्तरि॑क्षम् | अ॒न॒ड्वान् दा॑धार प्र॒दिशः॒ षडु॒र्वीर॑न॒ड्वान् विश्वं॒ भुव॑न॒मा वि॑वेश ||