4.9.1
१-१० भृगुः | त्रैकाकुदञ्जनम् | अनुष्टुप्, २ ककुम्मती, ३ पथ्यापङ्क्तिः | एहि॑ जी॒वं त्राय॑माणं॒ पर्व॑तस्या॒स्यक्ष्य॑म् | विश्वे॑भिर्दे॒वैर्द॒त्तं प॑रि॒धिर्जीव॑नाय॒ कम् ||
आञ्जनम्।
4.9.1
१-१० भृगुः | त्रैकाकुदञ्जनम् | अनुष्टुप्, २ ककुम्मती, ३ पथ्यापङ्क्तिः | एहि॑ जी॒वं त्राय॑माणं॒ पर्व॑तस्या॒स्यक्ष्य॑म् | विश्वे॑भिर्दे॒वैर्द॒त्तं प॑रि॒धिर्जीव॑नाय॒ कम् ||
1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
4.9.1
१-१० भृगुः | त्रैकाकुदञ्जनम् | अनुष्टुप्, २ ककुम्मती, ३ पथ्यापङ्क्तिः | एहि॑ जी॒वं त्राय॑माणं॒ पर्व॑तस्या॒स्यक्ष्य॑म् | विश्वे॑भिर्दे॒वैर्द॒त्तं प॑रि॒धिर्जीव॑नाय॒ कम् ||
4.9.2
प॒रि॒पाणं॒ पुरु॑षाणां परि॒पाणं॒ गवा॑मसि | अश्वा॑ना॒मर्व॑तां परि॒पाणा॑य तस्थिषे ||
4.9.3
उ॒तासि॑ परि॒पाणं॑ यातु॒जम्भ॑नमाञ्जन | उ॒तामृत॑स्य॒ त्वं वे॒त्थाथो॑ असि जीव॒भोज॑न॒मथो॑ हरितभेष॒जम् ||
4.9.4
यस्या॑ञ्जन प्र॒सर्प॒स्यङ्ग॑मङ्गं॒ परु॑ष्परुः | ततो॒ यक्ष्मं॒ वि बा॑धस उ॒ग्रो मध्यम॒शीरि॑व ||
4.9.5
नैनं॒ प्राप्नो॑ति श॒पथो॒ न कृ॒त्या नाभि॒शोच॑नम् | नैनं॒ विष्क॑न्धमश्नुते॒ यस्त्वा॒ बिभ॑र्त्याञ्जन ||
4.9.6
अ॒स॒न्म॒न्त्रा॑द् दु॒ष्वप्न्याद् दुष्कृ॒ताच्छम॑लादु॒त | दु॒र्हार्द॒श्चक्षु॑षो घो॒रात् तस्मा॑न्नः पाह्याञ्जन ||
4.9.7
इ॒दं वि॒द्वाना॑ञ्जन स॒त्यं व॑क्ष्यामि॒ नानृ॑तम् | स॒नेय॒मश्वं॒ गाम॒हमा॒त्मानं॒ तव॒ पूरुष ||
4.9.8
त्रयो॑ दा॒सा आञ्ज॑नस्य त॒क्मा ब॒लास॒ आदहिः॑ | वर्षि॑ष्ठः॒ पर्व॑तानां त्रिक॒कुन्नाम॑ ते पि॒ता ||
4.9.9
यदाञ्ज॑नं त्रैककु॒दं जा॒तं हि॒मव॑त॒स्परि॑ | या॒तूंश्च॒ सर्वा॑ञ्ज॒म्भय॒त् सर्वा॑श्च यातुधा॒न्यः ||
4.9.10
यदि॒ वासि॑ त्रैककु॒दं यदि॑ यामु॒नमु॒च्यसे॑ | उ॒भे ते॑ भ॒द्रे॑ नाम्नी॒ ताभ्यां॒ नः पाह्याञ्जन ||