3.9.1
१-६ वामदेवः | द्यावापृथिवी, देवाः | अनुष्टुप्, ४ चतुष्पदा निचृद्बृहती, ६भुरिक् | क॒र्शफ॑स्य विश॒फस्य॒ द्यौः पि॒ता पृ॑थि॒वी मा॒ता | यथा॑भिच॒क्र दे॑वा॒स्तथाप॑ कृणुता॒ पुनः॑ ||
दुःखनाशनम्।
3.9.1
१-६ वामदेवः | द्यावापृथिवी, देवाः | अनुष्टुप्, ४ चतुष्पदा निचृद्बृहती, ६भुरिक् | क॒र्शफ॑स्य विश॒फस्य॒ द्यौः पि॒ता पृ॑थि॒वी मा॒ता | यथा॑भिच॒क्र दे॑वा॒स्तथाप॑ कृणुता॒ पुनः॑ ||
1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
3.9.1
१-६ वामदेवः | द्यावापृथिवी, देवाः | अनुष्टुप्, ४ चतुष्पदा निचृद्बृहती, ६भुरिक् | क॒र्शफ॑स्य विश॒फस्य॒ द्यौः पि॒ता पृ॑थि॒वी मा॒ता | यथा॑भिच॒क्र दे॑वा॒स्तथाप॑ कृणुता॒ पुनः॑ ||
3.9.2
अ॒श्रे॒ष्माणो॑ अधारय॒न् तथा॒ तन्मनु॑ना कृ॒तम् | कृणोमि॒ वध्रि॒ विष्क॑न्धं मुष्काब॒र्हो गवा॑मिव ||
3.9.3
पि॒शङ्गे॒ सूत्रे॒ खृग॑लं॒ तदा ब॑ध्नन्ति वे॒धसः॑ | श्र॒व॒स्युं शुष्मं॑ काब॒वं वध्रिं॑ कृण्वन्तु ब॒न्धुरः॑ ||
3.9.4
येना॑ श्रवस्यव॒श्चर॑थ दे॒वा इ॑वासुरमा॒यया॑ | शुनां॑ क॒पिरि॑व॒ दूष॑णो॒ बन्धु॑रा काब॒वस्य॑ च ||
3.9.5
दुष्ट्यै॒ हि त्वा॑ भ॒त्स्यामि॑ दूषयि॒ष्यामि॑ काब॒वम् | उदा॒शवो॒ रथा॑ इव श॒पथे॑भिः सरिष्यथ ||
3.9.6
एक॑शतं॒ विष्क॑न्धानि॒ विष्ठि॑ता पृथि॒वीमनु॑ | तेषां॒ त्वामग्रे॒ उज्ज॑हरुर्म॒णिं वि॑ष्कन्ध॒दूष॑णम् ||