3.10.1
१-१३ अथर्वा | अष्टका, धेनुः, २-४ रात्रिः, धेनुः, ५ एकाष्टका, ६ जातवेदाः, पशवः, ७ रात्रिः, यज्ञ ८ संवत्सरः, ९ ऋतवः, १० धाता विधातारौ, ऋतवः, ११ देवाः, १२ इन्द्रः, देवाः, १३ प्रजापतिः | अनुष्टुप्, ४-६,१२ त्रिष्टुप् ७ त्र्यवसाना षट्पदा विराड् गर्भातिजगती | प्र॒थ॒मा ह॒ व्युऽवास॒ सा धे॒नुर॑भवद् य॒मे | सा नः॒ पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समा॑म् ||