Atharvaveda 3.8

राष्ट्रधारणम्।

3.8.1

१-६ अथर्वा | १ मित्रः, पृथिवी, वरुणः, वायुः, अग्निः, २ धाता, सविता, इन्द्रः, त्वष्टा, अदितिः, ३ सोमः, सविता, आदित्यः, अग्निः, ४ विश्वे देवाः, ५-६ सांमनस्यम् | त्रिष्टुप्, २-३ जगती, ४ चतुष्पदा विराड् बृहतीगर्भा, ५ अनुष्टुप् | आ या॑तु मि॒त्र ऋ॒तुभिः॒ कल्प॑मानः संवे॒शय॑न् पृथि॒वीमु॒स्रिया॑भिः | अथा॒स्मभ्यं॒ वरु॑णो वा॒युर॒ग्निर्बृ॒हद् रा॒ष्ट्रं सं॑वे॒श्यंऽ दधातु ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

3.8.1

१-६ अथर्वा | १ मित्रः, पृथिवी, वरुणः, वायुः, अग्निः, २ धाता, सविता, इन्द्रः, त्वष्टा, अदितिः, ३ सोमः, सविता, आदित्यः, अग्निः, ४ विश्वे देवाः, ५-६ सांमनस्यम् | त्रिष्टुप्, २-३ जगती, ४ चतुष्पदा विराड् बृहतीगर्भा, ५ अनुष्टुप् | आ या॑तु मि॒त्र ऋ॒तुभिः॒ कल्प॑मानः संवे॒शय॑न् पृथि॒वीमु॒स्रिया॑भिः | अथा॒स्मभ्यं॒ वरु॑णो वा॒युर॒ग्निर्बृ॒हद् रा॒ष्ट्रं सं॑वे॒श्यंऽ दधातु ||

3.8.2

धा॒ता रा॒तिः स॑वि॒तेदं जु॑षन्ता॒मिन्द्र॒स्त्वष्टा॒ प्रति॑ हर्यन्तु मे॒ वचः॑ | हु॒वे दे॒वीमदि॑तिं॒ शूर॑पुत्रां सजा॒तानां॑ मध्यमे॒ष्ठा यथासा॑नि ||

3.8.3

हु॒वे सोमं॑ सवि॒तारं॒ नमो॑भि॒र्विश्वा॑नादि॒त्याँ अ॒हमु॑त्तर॒त्वे | अ॒यम॒ग्निर्दी॑दायद् दी॒र्घमे॒व स॑जा॒तैरि॒द्धोऽप्र॑तिब्रुवद्भिः ||

3.8.4

इ॒हेद॑साथ॒ न प॒रो ग॑मा॒थेर्यो॑ गो॒पाः पु॑ष्ट॒पति॑र्व॒ आज॑त् | अ॒स्मै कामा॒योप॑ का॒मिनी॒र्विश्वे॑ वो दे॒वा उ॑प॒संय॑न्तु ||

3.8.5

सं वो॒ मनां॑सि॒ सं व्र॒ता समाकू॑तीर्नमामसि | अ॒मी ये विव्र॑ता॒ स्थन॒ तान् वः॒ सं न॑मयामसि ||

3.8.6

अ॒हं गृ॑भ्णामि॒ मन॑सा॒ मनां॑सि॒ मम॑ चि॒त्तमनु॑ चि॒त्तेभि॒रेत॑ | मम॒ वशे॑षु॒ हृद॑यानि वः कृणोमि॒ मम॑ या॒तमनु॑वर्त्मान॒ एत॑ ||