3.7.1
१-७ भृग्वङ्गिराः | १-३ हरिणः, ४ तारके, ५ आपः, ६-७ यक्ष्मनाशनम् | अनुष्टुप्, ६ भुरिक् | ह॒रि॒णस्य॑ रघु॒ष्यदोऽधि॑ शी॒र्षणि॑ भेष॒जम् | स क्षे॑त्रि॒यं वि॒षाण॑या विषू॒चीन॑मनीनशत् ||
यक्ष्मनाशनम्।
3.7.1
१-७ भृग्वङ्गिराः | १-३ हरिणः, ४ तारके, ५ आपः, ६-७ यक्ष्मनाशनम् | अनुष्टुप्, ६ भुरिक् | ह॒रि॒णस्य॑ रघु॒ष्यदोऽधि॑ शी॒र्षणि॑ भेष॒जम् | स क्षे॑त्रि॒यं वि॒षाण॑या विषू॒चीन॑मनीनशत् ||
1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
3.7.1
१-७ भृग्वङ्गिराः | १-३ हरिणः, ४ तारके, ५ आपः, ६-७ यक्ष्मनाशनम् | अनुष्टुप्, ६ भुरिक् | ह॒रि॒णस्य॑ रघु॒ष्यदोऽधि॑ शी॒र्षणि॑ भेष॒जम् | स क्षे॑त्रि॒यं वि॒षाण॑या विषू॒चीन॑मनीनशत् ||
3.7.2
अनु॑ त्वा हरि॒णो वृषा॑ प॒द्भिश्च॒तुर्भि॑रक्रमीत् | विषा॑णे॒ वि ष्य॑ गुष्पि॒तं यद॑स्य क्षेत्रि॒यं हृ॒दि ||
3.7.3
अ॒दो यद॑व॒रोच॑ते॒ चतु॑ष्पक्षमिव च्छ॒दिः | तेना॑ ते॒ सर्वं॑ क्षेत्रि॒यमङ्गे॑भ्यो नाशयामसि ||
3.7.4
अ॒मू ये दि॒वि सु॒भगे॑ वि॒चृतौ॒ नाम॒ तार॑के | वि क्षे॑त्रि॒यस्य॑ मुञ्चतामध॒मं पाश॑मुत्त॒मम् ||
3.7.5
आप॒ इद् वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः | आपो॒ विश्व॑स्य भेष॒जीस्तास्त्वा॑ मुञ्चन्तु क्षेत्रि॒यात् ||
3.7.6
यदा॑सु॒तेः क्रि॒यमा॑णायाः क्षेत्रि॒यं त्वा॑ व्यान॒शे | वेदा॒हं तस्य॑ भेष॒जं क्षे॑त्रि॒यं ना॑शयामि॒ त्वत् ||
3.7.7
अ॒प॒वा॒से नक्ष॑त्राणामपवा॒स उ॒षसा॑मु॒त | अपा॒स्मत् सर्वं॑ दुर्भू॒तमप॑ क्षेत्रि॒यमु॑च्छतु ||