3.6.1
१-८ जगद्वीजं पुरुषः | वानस्पत्योऽश्वत्थः | अनुष्टुप् | पुमा॑न् पुंसः परि॑जातोऽश्व॒त्थः ख॑दि॒रादधि॑ | स ह॑न्तु॒ शत्रू॑न् माम॒कान् यान॒हं द्वेष्मि॒ ये च॒ माम् ||
शत्रुनाशनम्।
3.6.1
१-८ जगद्वीजं पुरुषः | वानस्पत्योऽश्वत्थः | अनुष्टुप् | पुमा॑न् पुंसः परि॑जातोऽश्व॒त्थः ख॑दि॒रादधि॑ | स ह॑न्तु॒ शत्रू॑न् माम॒कान् यान॒हं द्वेष्मि॒ ये च॒ माम् ||
1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
3.6.1
१-८ जगद्वीजं पुरुषः | वानस्पत्योऽश्वत्थः | अनुष्टुप् | पुमा॑न् पुंसः परि॑जातोऽश्व॒त्थः ख॑दि॒रादधि॑ | स ह॑न्तु॒ शत्रू॑न् माम॒कान् यान॒हं द्वेष्मि॒ ये च॒ माम् ||
3.6.2
तान॑श्वत्थ॒ निः शृ॑णीहि॒ शत्रू॑न् वैबाध॒दोध॑तः | इन्द्रे॑ण वृत्र॒घ्ना मे॒दी मि॒त्रेण॒ वरु॑णेन च ||
3.6.3
यथा॑श्वत्थ नि॒रभ॑नो॒ऽन्तर्म॑ह॒त्यऽर्ण॒वे | ए॒वा तान्त्सर्वा॒न् निर्भ॑ङ्ग्धि॒ यान॒हं द्वेष्मि॒ ये च॒ माम् ||
3.6.4
यः सह॑मान॒श्चर॑सि सासहा॒न इव ऋष॒भः | तेना॑श्वत्थ॒ त्वया॑ व॒यं स॒पत्ना॑न्त्सहिषीमहि ||
3.6.5
सि॒नात्वे॑ना॒न् निरृ॑तिर्मृ॒त्योः पाशै॑रमो॒क्यैः | अश्व॑त्थ॒ शत्रू॑न् माम॒कान् यान॒हं द्वेष्मि॒ ये च॒ माम् ||
3.6.6
यथा॑श्वत्थ वानस्प॒त्याना॒रोह॑न् कृणु॒षेऽध॑रान् | ए॒वा मे॒ शत्रो॑र्मू॒र्धानं॒ विष्व॑ग् भिन्द्धि॒ सह॑स्व च ||
3.6.7
तेऽध॒राञ्चः॒ प्र प्ल॑वन्तां छि॒न्ना नौरि॑व॒ बन्ध॑नात् | न वै॑बा॒धप्र॑णुत्तानां॒ पुन॑रस्ति नि॒वर्त॑नम् ||
3.6.8
प्रैणा॑न् नुदे॒ मन॑सा॒ प्र चि॒त्ते॑नो॒त ब्रह्म॑णा | प्रैणा॑न् वृ॒क्षस्य॒ शाख॑याश्व॒त्थस्य॑ नुदामहे ||