3.5.1
/ १-८ अथर्वा | सोमः | १ पुरोऽनुष्टुप् त्रिष्टुप्, २-३, ५-७ अनुष्टुप्, ४ त्रिष्टुप्, ८ विराडुरोबृहती | आयम॑गन् पर्णम॒णिर्ब॒ली बले॑न प्रमृ॒णन्त्स॒पत्ना॑न् | ओजो॑ दे॒वानां॒ पय॒ ओष॑धीनां॒ वर्च॑सा मा जिन्व॒त्वप्र॑यावन् ||
राष्ट्रस्य राजा राजकृतश्च
3.5.1
/ १-८ अथर्वा | सोमः | १ पुरोऽनुष्टुप् त्रिष्टुप्, २-३, ५-७ अनुष्टुप्, ४ त्रिष्टुप्, ८ विराडुरोबृहती | आयम॑गन् पर्णम॒णिर्ब॒ली बले॑न प्रमृ॒णन्त्स॒पत्ना॑न् | ओजो॑ दे॒वानां॒ पय॒ ओष॑धीनां॒ वर्च॑सा मा जिन्व॒त्वप्र॑यावन् ||
1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
3.5.1
/ १-८ अथर्वा | सोमः | १ पुरोऽनुष्टुप् त्रिष्टुप्, २-३, ५-७ अनुष्टुप्, ४ त्रिष्टुप्, ८ विराडुरोबृहती | आयम॑गन् पर्णम॒णिर्ब॒ली बले॑न प्रमृ॒णन्त्स॒पत्ना॑न् | ओजो॑ दे॒वानां॒ पय॒ ओष॑धीनां॒ वर्च॑सा मा जिन्व॒त्वप्र॑यावन् ||
3.5.2
मयि॑ क्ष॒त्रं प॑र्णमणे॒ मयि॑ धारयताद् र॒यिम् | अ॒हं रा॒ष्ट्रस्या॑भीव॒र्गे नि॒जो भू॑यासमुत्त॒मः ||
3.5.3
यं नि॑द॒धुर्वन॒स्पतौ॒ गुह्यं॑ दे॒वाः प्रि॒यं म॒णिम् | तम॒स्मभ्यं॑ स॒हायु॑षा दे॒वा द॑दतु॒ भर्त॑वे ||
3.5.4
सोम॑स्य प॒र्णः सह॑ उ॒ग्रमाग॒न्निन्द्रे॑ण द॒त्तो वरु॑णेन शि॒ष्टः | तं प्रि॑यासं ब॒हु रोच॑मानो दीर्घायु॒त्वाय॑ श॒तशा॑रदाय ||
3.5.5
आ मा॑रुक्षत् पर्णम॒णिर्म॒ह्या अ॑रि॒ष्टता॑तये | यथा॒हमु॑त्त॒रोऽसा॑न्यर्य॒म्ण उ॒त सं॒विदः॑ ||
3.5.6
ये धीवा॑नो रथका॒राः क॒र्मारा॒ ये म॑नी॒षिणः॑ | उ॒प॒स्तीन् प॑र्ण॒ मह्यं॒ त्वं सर्वा॑न् कृण्व॒भितो॒ जना॑न् ||
3.5.7
ये राजा॑नो राज॒कृतः॑ सू॒ता ग्रा॑म॒ण्यऽश्च॒ ये | उ॒प॒स्तीन् प॑र्ण॒ मह्यं॒ त्वं सर्वा॑न् कृण्व॒भितो॒ जनान् ||
3.5.8
प॒र्णोऽसि तनू॒पानः॒ सयो॑निर्वी॒रो वी॒रेण॒ मया॑ | सं॒व॒त्स॒रस्य॒ तेज॑सा॒ तेन॒ बध्नामि त्वा मणे ||