3.20.1
१-१० वसिष्ठः | १-२ अग्निःच ३ अर्यमा, भगः, बृहस्पतिः, देवीः, ४ सोमः, अग्निः, आदित्यः, विष्णुः, ब्रह्मा, बृहस्पतिः, ५ अग्निः, ६ इन्द्रवायू, ७ अर्यमा, बृहस्पतिः, इन्द्रः, वातः, विष्णुः, सरस्वती, सविता, वाजी, ८ विश्वा भुवनानि, ९ पञ्च प्रदिशः, १० वायुस्त्वष्टा | अनुष्टुप्, ६ पथ्यापङ्क्तिः, ८ विराड् जगती | अ॒यं ते॒ योनि॑रृ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः | तं जा॒नन्न॑ग्न॒ आ रो॒हाधा॑ नो बर्धय र॒यिम् ||