3.19.1
१-८ वसिष्ठः | विश्वे देवाः, चन्द्रमाः, इन्द्रः | अनुष्टुप्, १ पथ्याबृहती, ३ भुरिग्बृहती, ५ त्रिष्टुप्, ६ त्र्यवसाना षट्पदा त्रिष्टुप्ककुम्मतीगर्भातिजगती, ७ विराडास्तारपङ्क्तिः, ८ पथ्यापङ्क्तिः | संशि॑तं म इ॒दं ब्रह्म॒ संशि॑तं वी॒र्य॑१ बल॑म् | संशि॑तं क्ष॒त्रम॒जर॑मस्तु जि॒ष्णुर्येषा॒मस्मि॑ पु॒रोहि॑तः ||