3.21.1
१-१० वसिष्ठः | अग्निः | त्रिष्टुप्, १ पुरोनुष्टुप्, २, ३, ८ भुरिक् ५ जगती, ६ उपरिष्टाद्विराड् बृहती, ७ विराड् गर्भा, ९ निचृदनुष्टुप्, १० अनुष्टुप् | ये अ॒ग्नयो॑ अ॒प्स्व॑१न्तर्ये वृ॒त्रे ये पुरु॑षे॒ ये अश्म॑सु | य आ॑वि॒वेशोष॑धी॒र्यो वन॒स्पतीं॒स्तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत् ||