Atharvaveda 3.2

शत्रुसेनासंमोहनम्।

3.2.1

१-६ अथर्वा | सेनामोहनम्, १-२ अग्निः, ३-४ इन्द्रः, ५ द्यौः, ६ मरुतः | त्रिष्टुप्, २-४ अनुष्टुप् | अ॒ग्निर्नो॑ दू॒तः प्र॒त्येतु॑ वि॒द्वान् प्र॑ति॒दह॑न्न॒भिश॑स्ति॒मरा॑तिम् | स चि॒त्तानि॑ मोहयतु॒ परे॑षां॒ निर्ह॑स्तांश्च कृणवज्जा॒तवे॑दाः ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

3.2.1

१-६ अथर्वा | सेनामोहनम्, १-२ अग्निः, ३-४ इन्द्रः, ५ द्यौः, ६ मरुतः | त्रिष्टुप्, २-४ अनुष्टुप् | अ॒ग्निर्नो॑ दू॒तः प्र॒त्येतु॑ वि॒द्वान् प्र॑ति॒दह॑न्न॒भिश॑स्ति॒मरा॑तिम् | स चि॒त्तानि॑ मोहयतु॒ परे॑षां॒ निर्ह॑स्तांश्च कृणवज्जा॒तवे॑दाः ||

3.2.2

अ॒यम॒ग्निर॑मूमुह॒द् यानि॑ चि॒त्तानि॑ वो हृ॒दि | वि वो॑ धम॒त्वोक॑सः॒ प्र वो॑ धमतु स॒र्वतः॑ ||

3.2.3

इन्द्र॑ चि॒त्तानि॑ मो॒हय॑न्न॒र्वाङाकू॑त्या चर | अ॒ग्नेर्वात॑स्य॒ ध्राज्या॒ तान् विषू॑चो॒ वि ना॑शय ||

3.2.4

व्याऽकूतय एषामि॒ताथो॑ चि॒त्तानि॑ मुह्यत | अथो॒ यद॒द्यैषां॑ हृदि तदे॑षां॒ परि॒ निर्ज॑हि ||

3.2.5

अ॒मीषां॑ चि॒त्तानि॑ प्रतिमो॒हय॑न्ती गृहा॒णाङ्गा॑न्यप्वे॒ परे॑हि | अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॒र्ग्राह्या॒मित्रां॒स्तम॑सा विध्य॒ शत्रू॑न् ||

3.2.6

अ॒सौ या सेना॑ मरुतः॒ परे॑षाम॒स्मा॑नैत्य॒भ्योज॑सा॒ स्पर्ध॑माना | तां वि॑ध्यत॒ तम॒साप॑व्रतेन॒ यथै॑षाम॒न्यो अ॒न्यं न जा॒नात् ||