3.1.1
१-६ अथर्वा | सेनामोहनम्, १ अग्निः, २ मरुतः, ३-६ इन्द्रः | त्रिष्टुप्, २ विराड्गर्भा भुरिक्, ३-६ अनुष्टुप्, ५ विराट् पुरउष्णिक् | अ॒ग्निर्नः॒ शत्रू॒न् प्रत्ये॑तु वि॒द्वान् प्र॑ति॒दह॑न्न॒भिश॑स्ति॒मरा॑तिम् | स सेनां॑ मोहयतु॒ परे॑षां॒ निर्ह॑स्तांश्च कृणवज्जा॒तवे॑दाः ||