3.3.1
१-६ अथर्वा | १ अग्निः, २ इन्द्रः, ३ वरुणः सोमः इन्द्रः, ४ श्येनः अश्विनौ, ५ इन्द्राग्नी विश्वे देवाः, ६ इन्द्रः | त्रिष्टुप्, ३ चतुष्पदा भुरिक्पङ्क्तिः, ५-६ अनुष्टुप् | अ॑चिक्रदत् स्व॒पा इ॒ह भु॑व॒दग्ने॒ व्यऽचस्व॒ रोद॑सी उरू॒ची | यु॒ञ्जन्तु॑ त्वा म॒रुतो॑ वि॒श्ववे॑दस॒ आमुं न॑य॒ नम॑सा रा॒तह॑व्यम् ||