3.14.1
१-६ ब्रह्मा | गोष्ठः, अहः, २ अर्यमा, पूषा, बृहस्पतिः, इन्द्रः, १-६ गावः, ५ गोष्ठश्च | अनुष्टुप्, ६आर्षी त्रिष्टुप् | सं वो॑ गो॒ष्ठेन॑ सु॒षदा॒ सं र॒य्या सं सुभू॑त्या | अह॑र्जातस्य॒ यन्नाम॒ तेना॒ वः॒ सं सृ॑जामसि ||
गोष्ठः।

1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
3.14.1
१-६ ब्रह्मा | गोष्ठः, अहः, २ अर्यमा, पूषा, बृहस्पतिः, इन्द्रः, १-६ गावः, ५ गोष्ठश्च | अनुष्टुप्, ६आर्षी त्रिष्टुप् | सं वो॑ गो॒ष्ठेन॑ सु॒षदा॒ सं र॒य्या सं सुभू॑त्या | अह॑र्जातस्य॒ यन्नाम॒ तेना॒ वः॒ सं सृ॑जामसि ||
3.14.2
सं वः॑ सृजत्वर्य॒मा सं पू॒षा सं बृह॒स्पतिः॑ | समिन्द्रो॒ यो ध॑नंज॒यो मयि॑ पुष्यत॒ यद् वसु॑ ||
3.14.3
सं॒ज॒ग्मा॒ना अबि॑भ्युषीर॒स्मिन् गो॒ष्ठे क॑री॒षिणीः॑ | बिभ्र॑तीः सो॒म्यं मध्व॑नमी॒वा उ॒पेत॑न ||
3.14.4
इ॒हैव गा॑व॒ एत॑ने॒हो शके॑व पुष्यत | इ॒हैवोत प्र जा॑यध्वं॒ मयि॑ सं॒ज्ञान॑मस्तु वः ||
3.14.5
शि॒वो वो॑ गो॒ष्ठो भ॑वतु शारि॒शाके॑व पुष्यत | इ॒हैवोत प्र जा॑यध्वं॒ मया॑ वः॒ सं सृ॑जामसि ||
3.14.6
मया॑ गावो॒ गोप॑तिना सचध्वम॒यं वो॑ गो॒ष्ठ इ॒ह पो॑षयि॒ष्णुः | रा॒यस्पोषे॑ण बहु॒ला भव॑न्तीर्जी॒वा जीव॑न्ती॒रुप॑ वः सदेम ||