3.13.1
१-७ भृगुः | वरुणः, सिन्धुः, आपः, २-३ इन्द्रः | अनुष्टुप्, १ निचृत्, ५ विराड् जगती, ६ निचृदगनुष्टुप् | यद॒दः सं॑प्रय॒तीरहा॒वन॑दता हते॑ | तस्मा॒दा न॒द्यो॒३ नाम॑ स्थ॒ ता वो॒ नामा॑नि सिन्धवः ||
आपः।
3.13.1
१-७ भृगुः | वरुणः, सिन्धुः, आपः, २-३ इन्द्रः | अनुष्टुप्, १ निचृत्, ५ विराड् जगती, ६ निचृदगनुष्टुप् | यद॒दः सं॑प्रय॒तीरहा॒वन॑दता हते॑ | तस्मा॒दा न॒द्यो॒३ नाम॑ स्थ॒ ता वो॒ नामा॑नि सिन्धवः ||
1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
3.13.1
१-७ भृगुः | वरुणः, सिन्धुः, आपः, २-३ इन्द्रः | अनुष्टुप्, १ निचृत्, ५ विराड् जगती, ६ निचृदगनुष्टुप् | यद॒दः सं॑प्रय॒तीरहा॒वन॑दता हते॑ | तस्मा॒दा न॒द्यो॒३ नाम॑ स्थ॒ ता वो॒ नामा॑नि सिन्धवः ||
3.13.2
यत् प्रेषि॑ता॒ वरु॑णे॒नाच्छीभं॑ स॒मव॑ल्गत | तदा॑प्नो॒दिन्द्रो॑ वो य॒तीस्तस्मा॑दापो॒ अनु॑ ष्ठन ||
3.13.3
अ॒प॒का॒मं स्यन्द॑माना॒ अवी॑वरत वो॒ हि क॑म् | इन्द्रो॑ वः॒ शक्ति॑भिर्देवी॒स्तस्मा॒द् वार्नाम॑ वो हि॒तम् ||
3.13.4
एको॑ वो दे॒वोऽप्य॑तिष्ठ॒त् स्यन्द॑माना यथाव॒शम् | उदा॑निषुर्म॒हीरिति॒ तस्मा॑दुद॒कमु॑च्यते ||
3.13.5
आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसन्न॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत् ताः | ती॒व्रो रसो॑ मधुपृचा॑मरंग॒म आ मा॑ प्रा॒णेन॑ स॒ह वर्च॑सा गमेत् ||
3.13.6
आदित् प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ् मा॑साम् | मन्ये॑ भेजा॒नो अ॒मृत॑स्य तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पं य॒दा वः॑ ||
3.13.7
इ॒दं व॑ आपो॒ हृद॑यम॒यं व॒त्स ऋ॑तावरीः | इ॒हेत्थमेत॑ शक्वरी॒र्यत्रे॒दं वे॒शया॑मि वः ||