3.15.1
१-८ अथर्वा (पण्यकामः) | विश्वे देवाः, इन्द्राग्नी | त्रिष्टुप्,१ भुरिक्, ४ त्र्यवसाना षट् पदा बृहतीगर्भा विराडत्यष्टिः, ५ विराड्जगती, ७ अनुष्टुप्, ८ निचृत् | इन्द्र॑म॒हं व॒णिजं॑ चोदयामि॒ स न॒ ऐतु॑ पुरए॒ता नो॑ अस्तु | नु॒दन्नरा॑तिं परिप॒न्थिनं॑ मृ॒गं स ईशा॑नो धन॒दा अ॑स्तु॒ मह्य॑म् ||