Atharvaveda 2.9

दीर्घायुःप्राप्तिः।

2.9.1

१- ५ भृग्वङ्गिराः | वनस्पतिः, यक्ष्मनाशनम् | अनुष्टुप्, १ विराट् प्रस्तारपङ्क्तिः | दश॑वृक्ष मु॒ञ्चेमं रक्ष॑सो॒ ग्राह्या॒ अधि॒ यैनं॑ ज॒ग्राह॒ पर्व॑सु | अथो॑ एनं वनस्पते जी॒वानां॒ लो॒क॑मु॑न्नय ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

2.9.1

१- ५ भृग्वङ्गिराः | वनस्पतिः, यक्ष्मनाशनम् | अनुष्टुप्, १ विराट् प्रस्तारपङ्क्तिः | दश॑वृक्ष मु॒ञ्चेमं रक्ष॑सो॒ ग्राह्या॒ अधि॒ यैनं॑ ज॒ग्राह॒ पर्व॑सु | अथो॑ एनं वनस्पते जी॒वानां॒ लो॒क॑मु॑न्नय ||

2.9.2

आगा॒दुद॑गाद॒यं जी॒वानां॒ व्रात॒मप्य॑गात् | अभू॑दु पु॒त्राणां॑ पि॒ता नृ॒णां च॒ भग॑वत्तमः ||

2.9.3

अधी॑ती॒रध्य॑गाद॒यमधि॑ जीवपु॒रा अ॑गान् | श॒तं ह्य॑स्य भि॒षजः॑ स॒हस्र॑मु॒त वी॒रुधः॑ ||

2.9.4

दे॒वास्ते॑ ची॒तिम॑विदन् ब्र॒ह्माण॑ उ॒त वी॒रुधः॑ | ची॒तिं ते॒ विश्वे॑ दे॒वा अवि॑द॒न् भूम्या॒मधि॑ ||

2.9.5

यश्च॒कार॒ स निष्क॑र॒त् स ए॒व सुभि॑षक्तमः | स ए॒व तुभ्यं॑ भेष॒जानि॑ कृ॒णव॑द् भि॒षजा॒ शुचिः॑ ||