2.8.1
१-५ भृग्वङ्गिराः | वनस्पतिः, यक्ष्म नाशनम् | अनुष्टुप्, ३ पथ्यापङ्क्तिः, ४ विराट्, ५ निचृत्पथ्यापङ्क्तिः | उद॑गातां॒ भग॑वती वि॒चृतौ॒ नाम॒ तार॑के | वि क्षे॑त्रि॒यस्य॑ मुञ्चतामध॒मं पाश॑मुत्त॒मम् ||
क्षेत्रियरोगनाशनम्।

1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
2.8.1
१-५ भृग्वङ्गिराः | वनस्पतिः, यक्ष्म नाशनम् | अनुष्टुप्, ३ पथ्यापङ्क्तिः, ४ विराट्, ५ निचृत्पथ्यापङ्क्तिः | उद॑गातां॒ भग॑वती वि॒चृतौ॒ नाम॒ तार॑के | वि क्षे॑त्रि॒यस्य॑ मुञ्चतामध॒मं पाश॑मुत्त॒मम् ||
2.8.2
अपे॒यं रात्र्यु॑च्छ॒त्वपो॑च्छन्त्वभि॒कृत्व॑रीः | वी॒रुत् क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑च्छतु ||
2.8.3
ब॒भ्रोरर्जु॑नकाण्डस्य॒ यव॑स्य ते पला॒ल्या तिल॑स्य तिलपि॒ञ्ज्या | वीरुत् क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑च्छतु ||
2.8.4
नम॑स्ते॒ लाङ्ग॑लेभ्यो॒ नम॑ ईषायु॒गेभ्यः॑ | वी॒रुत् क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑च्छतु ||
2.8.5
नमः॑ सनिस्रसा॒क्षेभ्यो॒ नमः॑ संदे॒श्येऽभ्यः | नमः॒ क्षेत्र॑स्य॒ पत॑ये वी॒रुत् क्षे॑त्रिय॒नाश॒न्यप॑ क्षेत्रि॒यमु॑छतु ||