2.10.1
१-८ भृग्वङ्गिराः | १-८ द्यावापृथिवी, ब्रह्म, २ अग्निः, आपः, ओषधयः, सोमः, ३ वातः, दिशः,४-८वातपत्नीः, सूर्यः, यक्ष्मं, निर्ऋतिः | १ त्रिष्टुप्, २ सप्तपदाष्टिः, ३-५, ७-८ सप्तपदा धृतिः, ६ सप्तपदात्यष्टिः, ८ (२, ३) द्वौ पादौ उष्णिहौ | क्षे॒त्रि॒यात् त्वा॒ निरृ॑त्या जामिशं॒साद् द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त् | अ॒ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑ पृथि॒वी उ॒भे स्ता॑म् ||