Atharvaveda 2.3

आस्रावस्य

2.3.1

भेषजम् | १-६ अङ्गिराः | भैषज्यं, आयुः, धन्वन्तरिः | अनुष्टुप्, ६ त्रिपदा स्वराडुपरिष्टान्महाबृहती | अ॒दो यद॑व॒धाव॑त्यव॒त्कमधि॒ पर्व॑तात् | तत् ते॑ कृणोमि भेष॒जं सुभे॑षजं॒ यथास॑सि ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

2.3.1

भेषजम् | १-६ अङ्गिराः | भैषज्यं, आयुः, धन्वन्तरिः | अनुष्टुप्, ६ त्रिपदा स्वराडुपरिष्टान्महाबृहती | अ॒दो यद॑व॒धाव॑त्यव॒त्कमधि॒ पर्व॑तात् | तत् ते॑ कृणोमि भेष॒जं सुभे॑षजं॒ यथास॑सि ||

2.3.2

आद॒ङ्गा कु॒विद॒ङ्गा श॒तं या भे॑ष॒जानि॑ ते | तेषा॑मसि॒ त्वमु॑त्त॒मम॑नास्रा॒वमरो॑गणम् ||

2.3.3

नी॒चैः ख॑न॒न्त्यसु॑रा अरु॒स्राण॑मि॒दं म॒हत् | तदा॑स्रा॒वस्य॑ भेष॒जं तदु॒ रोग॑मनीनशत् ||

2.3.4

उ॒प॒जीका॒ उद् भ॑रन्ति समु॒द्रादधि॑ भेष॒जम् | तदा॑स्रा॒वस्य॑ भेष॒जं तदु॒ रोग॑मशीशमत् ||

2.3.5

अ॒रु॒स्राण॑मि॒दं म॒हत् पृ॑थि॒व्या अध्युद्भृ॑तम् | तदा॑स्रा॒वस्य॑ भेष॒जं तदु॒ रोग॑मनीनशत् ||

2.3.6

शं नो॑ भवन्त्व॒प ओष॑धयः शि॒वाः | इन्द्र॑स्य॒ वज्रो॒ अप॑ हन्तु र॒क्षस॑ आ॒राद् विसृ॑ष्टा॒ इष॑वः पतन्तु र॒क्षसा॑म् ||