2.4.1
१-६ अथर्वा | (चन्द्रमाः,) जङ्गिडः | अनुष्टुप्, १ विराट् प्रस्तारपङ्क्तिः | दी॒र्घा॒यु॒त्वाय॑ बृह॒ते रणा॒यारि॑ष्यन्तो॒ दक्ष॑माणाः॒ सदै॒व | म॒णिं वि॑ष्कन्ध॒दूष॑णं जङ्गि॒डं बि॑भृमो व॒यम् ||
दीर्घायुःप्राप्तिः।
2.4.1
१-६ अथर्वा | (चन्द्रमाः,) जङ्गिडः | अनुष्टुप्, १ विराट् प्रस्तारपङ्क्तिः | दी॒र्घा॒यु॒त्वाय॑ बृह॒ते रणा॒यारि॑ष्यन्तो॒ दक्ष॑माणाः॒ सदै॒व | म॒णिं वि॑ष्कन्ध॒दूष॑णं जङ्गि॒डं बि॑भृमो व॒यम् ||
1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
2.4.1
१-६ अथर्वा | (चन्द्रमाः,) जङ्गिडः | अनुष्टुप्, १ विराट् प्रस्तारपङ्क्तिः | दी॒र्घा॒यु॒त्वाय॑ बृह॒ते रणा॒यारि॑ष्यन्तो॒ दक्ष॑माणाः॒ सदै॒व | म॒णिं वि॑ष्कन्ध॒दूष॑णं जङ्गि॒डं बि॑भृमो व॒यम् ||
2.4.2
जङ्गि॒डो ज॒म्भाद् वि॑श॒राद् विष्क॑न्धादभि॒शोच॑नात् | म॒णिः स॒हस्र॑वीर्यः॒ परि॑ णः पातु वि॒श्वतः॑ ||
2.4.3
अ॒यं विष्क॑न्धं सहते॒ऽयं बा॑धते अ॒त्त्रिणः॑ | अ॒यं नो॑ वि॒श्वभे॑षजो जङ्गि॒डः पा॒त्वंह॑सः ||
2.4.4
दे॒वैर्द॒त्तेन॑ म॒णिना॑ जङ्गि॒डेन॑ मयो॒भुवा॑ | विष्क॑न्धं॒ सर्वा॒ रक्षां॑सि व्याया॒मे स॑हामहे ||
2.4.5
श॒णश्च॑ मा जङ्गि॒डश्च॒ विष्क॑न्धाद॒भि र॑क्षताम् | अर॑ण्याद॒न्य आभृ॑तः कृ॒ष्या अ॒न्यो रसे॑भ्यः ||
2.4.6
कृ॒त्या॒दूषि॑र॒यं म॒णिरथो॑ अराति॒दूषिः॑ | अथो॒ सह॑स्वान् जङ्गि॒डः प्र ण॒ आयुं॑षि तारिषत् ||