2.2.1
१-५ मातृनामा | गन्धर्वाप्सरसः | त्रिष्टुप्, १ विराड् जगती, ४ त्रिष्टुपाद्विराण्नाम गायत्री, ५ भुरिगनुष्टुप् | दि॒व्यो ग॑न्ध॒र्वो भुव॑नस्य॒ यस्पति॒रेक॑ ए॒व न॑म॒स्योऽवि॒क्ष्वीड्यः॑ | तं त्वा॑ यौमि॒ ब्रह्म॑णा दिव्य देव॒ नम॑स्ते अस्तु दि॒वि ते॑ स॒धस्थ॑म् ||