Atharvaveda 19.49

रात्रिः।

19.49.1

१-१० गोपथः, भरद्वाजश्च | रात्रिः | अनुष्टुप्, १-५, ८ त्रिष्टुप्, ६ आस्तारपङ्क्तिः, ७ पथ्यापङ्क्तिः, १० त्र्यवसाना इ॒षि॒रा योषा॑ युव॒तिर्दमू॑ना॒ रात्री॑ दे॒वस्य॑ सवि॒तुर्भग॑स्य | अ॒श्व॒क्ष॒भा सु॒हवा॒ संभृ॑तश्री॒रा प॑प्रौ॒ द्यावा॑पृथि॒वी म॑हि॒त्वा ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

19.49.1

१-१० गोपथः, भरद्वाजश्च | रात्रिः | अनुष्टुप्, १-५, ८ त्रिष्टुप्, ६ आस्तारपङ्क्तिः, ७ पथ्यापङ्क्तिः, १० त्र्यवसाना इ॒षि॒रा योषा॑ युव॒तिर्दमू॑ना॒ रात्री॑ दे॒वस्य॑ सवि॒तुर्भग॑स्य | अ॒श्व॒क्ष॒भा सु॒हवा॒ संभृ॑तश्री॒रा प॑प्रौ॒ द्यावा॑पृथि॒वी म॑हि॒त्वा ||

19.49.2

अति॒ विश्वा॑न्यरुहद् गम्भी॒रो वर्षि॑ष्ठमरुहन्त॒ श्रवि॑ष्ठाः | उ॒श॒ती रात्र्यनु॒ सा भ॒द्राभि ति॑ष्ठते मि॒त्र इ॑व स्व॒धाभिः॑ ||

19.49.3

वर्ये॒ वन्दे॒ सुभ॑गे॒ सुजा॑त॒ आज॑ग॒न् रात्रि॑ सु॒मना॑ इ॒ह स्या॑म् | अ॒स्मांस्त्रा॑यस्व॒ नर्या॑णि जा॒ता अथो॒ यानि॒ गव्या॑नि पु॒ष्ठ्या ||

19.49.4

सिं॒हस्य॒ रात्र्यु॑श॒ती पीं॒षस्य॑ व्या॒घ्रस्य॑ द्वी॒पिनो॒ वर्च॒ आ द॑दे | अश्व॑स्य ब्र॒ध्नं पुरु॑षस्य मा॒युं पु॒रु रू॒पाणि॑ कृणुषे विभा॒ती ||

19.49.5

शि॒वां रात्रि॑मनु॒सूर्यं॑ च हि॒मस्य॑ मा॒ता सु॒हवा॑ नो अस्तु | अ॒स्य स्तोम॑स्य सुभगे॒ नि बो॑ध॒ येन॑ त्वा॒ वन्दे॒ विश्वा॑सु दि॒क्षु ||

19.49.6

स्तोम॑स्य नो विभावरि॒ रात्रि॒ राजे॑व जोषसे | आसा॑म॒ सर्व॑वीरा॒ भवा॑म॒ सर्व॑वेदसो व्यु॒च्छन्ती॒रनू॒षसः॑ ||

19.49.7

शम्या॑ ह॒ नाम॑ दधि॒षे मम॒ दिप्स॑न्ति॒ ये धना॑ | रात्री॒हि तान॑सुत॒पा यस्ते॒नो न वि॒द्यते॒ यत् पुन॒र्न वि॒द्यते॑ ||

19.49.8

भ॒द्रासि॑ रात्रि चम॒सो न वि॒ष्टो विष्वं॒ गोरू॑पं युव॒तिर्बि॑भर्षि | चक्षु॑ष्मती मे उश॒ती वपूंषि॒ प्रति॒ त्वं दि॒व्या न क्षाम॑मुक्थाः ||

19.49.9

यो अ॒द्य स्ते॒न आय॑त्यघा॒युर्मर्त्यो॑ रि॒पुः | रात्री॒ तस्य॑ प्र॒तीत्य॒ प्र ग्री॒वाः प्र शिरो॑ हनत् ||

19.49.10

प्र पादौ॒ न यथाय॑ति॒ प्र हस्तौ॒ न यथाशि॑षत् | यो म॑लि॒म्लुरु॒पाय॑ति॒ स संपि॑ष्टो॒ अपा॑यति | अपा॑यति॒ स्वपा॑यति॒ शुष्के॑ स्था॒णावपा॑यति ||