19.50.1
१-७ गोपथः | रात्रिः | अनुष्टुप् | अध॑ रात्रि तृ॒ष्टधू॑ममशी॒र्षाण॒महिं॑ कृणु | अ॒क्षौ वृक॑स्य॒ निर्ज॑ह्या॒स्तेन॒ तं द्रु॑प॒दे ज॑हि ||
रात्रिः।
19.50.1
१-७ गोपथः | रात्रिः | अनुष्टुप् | अध॑ रात्रि तृ॒ष्टधू॑ममशी॒र्षाण॒महिं॑ कृणु | अ॒क्षौ वृक॑स्य॒ निर्ज॑ह्या॒स्तेन॒ तं द्रु॑प॒दे ज॑हि ||
1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
19.50.1
१-७ गोपथः | रात्रिः | अनुष्टुप् | अध॑ रात्रि तृ॒ष्टधू॑ममशी॒र्षाण॒महिं॑ कृणु | अ॒क्षौ वृक॑स्य॒ निर्ज॑ह्या॒स्तेन॒ तं द्रु॑प॒दे ज॑हि ||
19.50.2
ये ते॑ रात्र्यन॒ड्वाह॒स्तीक्ष्ण॑शृङ्गाः स्वा॒शवः॑ | तेभि॑र्नो अ॒द्य पा॑र॒याति॑ दु॒र्गाणि॑ वि॒श्वहा॑ ||
19.50.3
रात्रिं॑रात्रि॒मरि॑ष्यन्त॒स्तरे॑म त॒न्वा व॒यम् | ग॒म्भी॒रमप्ल॑वा इव॒ न त॑रेयु॒ररा॑तयः ||
19.50.4
यथा॑ शा॒म्याकः॑ प्र॒पत॑न्नप॒वान् नानु॑वि॒द्यते॑ | ए॒वा रा॑त्रि॒ प्र पा॑तय॒ यो अ॒स्मां अ॑भ्यघा॒यति ||
19.50.5
अप॑ स्ते॒नं वासो॑ गोअ॒जमु॒त तस्क॑रम् | अथो॒ यो अर्व॑तः॒ शिरो॑ऽभि॒धाय॒ निनी॑षति ||
19.50.6
यद॒द्या रा॑त्रि सुभगे वि॒भज॒न्त्ययो॒ वसु॑ | यदे॒तद॒स्मान् भो॑जय॒ यथेद॒न्यानु॒पाय॑सि ||
19.50.7
उ॒षसे॑ नः॒ परि॑ देहि॒ सर्वा॒न् रात्र्य॑ना॒गसः॑ | उ॒षा नो॒ अह्ने॒ आ भ॑जा॒दह॒स्तुभ्यं॑ विभावरि ||