19.48.1
१-६ गोपथः | रात्रिः | अनुष्टुप्, १ त्रिपदाऽर्षी गायत्री, २ त्रिपदा विराडनुष्टुप्, ३ बृहतीगर्भाऽनुष्टुप्, ५ पथ्यापङ्क्तिः | अथो॒ यानि॑ च॒ यस्मा॑ ह॒ यानि॑ चा॒न्तः प॑री॒णहि॑ | तानि॑ ते॒ परि॑ दद्मसि ||
रात्रिः।

1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
19.48.1
१-६ गोपथः | रात्रिः | अनुष्टुप्, १ त्रिपदाऽर्षी गायत्री, २ त्रिपदा विराडनुष्टुप्, ३ बृहतीगर्भाऽनुष्टुप्, ५ पथ्यापङ्क्तिः | अथो॒ यानि॑ च॒ यस्मा॑ ह॒ यानि॑ चा॒न्तः प॑री॒णहि॑ | तानि॑ ते॒ परि॑ दद्मसि ||
19.48.2
रात्रि॒ मात॑रु॒षसे॑ नः॒ परि॑ देहि | उ॒षा नो॒ अह्ने॒ परि॑ ददा॒त्वह॒स्तुभ्यं॑ विभावरि ||
19.48.3
यत् किं चे॒दं प॒तय॑ति यत् किं चे॒दं स॑रीसृ॒पम् | यत् किं च॒ पर्व॑ताया॒सत्वं॒ तस्मा॒त् त्वं रा॑त्रि पाहि नः ||
19.48.4
सा प॒श्चात् पा॑हि॒ सा पु॒रः सोत्त॒राद॑ध॒रादु॒त | गो॒पाय॑ नो विभावरि स्तो॒तार॑स्त इ॒ह स्म॑सि ||
19.48.5
ये रात्रि॑मनु॒तिष्ठ॑न्ति॒ ये च॑ भू॒तेषु॒ जाग्र॑ति | प॒शून् ये सर्वा॒न् रक्ष॑न्ति॒ ते न॑ आ॒त्मसु॑ जाग्रति॒ ते नः॑ प॒शुषु॑ जाग्रति ||
19.48.6
वेद॒ वै रा॑त्रि ते॒ नाम॑ घृ॒ताची॒ नाम॒ वा अ॑सि | तां त्वां भ॒रद्वा॑जो वेद॒ सा नो॑ वि॒त्तेऽधि॑ जाग्रति ||