19.18.1
१-१० अथर्वा | मन्त्रोक्ताः | १, ८ साम्नी त्रिष्टुप्, २-३ आर्च्यनुष्टुप्, ( ५ सम्राडार्च्यनुष्टुप्) ७, ९-१० (द्विपदाः) अ॒ग्निं ते वसु॑वन्तमृच्छन्तु | ये मा॑घा॒यवः॒ प्राच्या॑ दि॒शोऽभि॒दासा॑त् ||
सुरक्षा।
19.18.1
१-१० अथर्वा | मन्त्रोक्ताः | १, ८ साम्नी त्रिष्टुप्, २-३ आर्च्यनुष्टुप्, ( ५ सम्राडार्च्यनुष्टुप्) ७, ९-१० (द्विपदाः) अ॒ग्निं ते वसु॑वन्तमृच्छन्तु | ये मा॑घा॒यवः॒ प्राच्या॑ दि॒शोऽभि॒दासा॑त् ||
1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
19.18.1
१-१० अथर्वा | मन्त्रोक्ताः | १, ८ साम्नी त्रिष्टुप्, २-३ आर्च्यनुष्टुप्, ( ५ सम्राडार्च्यनुष्टुप्) ७, ९-१० (द्विपदाः) अ॒ग्निं ते वसु॑वन्तमृच्छन्तु | ये मा॑घा॒यवः॒ प्राच्या॑ दि॒शोऽभि॒दासा॑त् ||
19.18.2
वा॒युं ते॒३ऽन्तरि॑क्षवन्तमृछन्तु | ये मा॑घा॒यवः॑ ए॒तस्या॑ दि॒शोऽभि॒दासा॑त् ||
19.18.3
सोमं॒ ते रु॒द्रव॑न्तमृछन्तु | ये मा॑घा॒यवो॒ दक्षि॑णाया दि॒शोऽभि॒दासा॑त् ||
19.18.4
वरु॑णं॒ त आ॑दि॒त्यव॑न्तमृच्छन्तु | ये मा॑घा॒यव॑ ए॒तस्या॑ दि॒शोऽभि॒दासा॑त् ||
19.18.5
सूर्यं॒ ते द्यावा॑पृथि॒वीव॑न्तमृच्छन्तु | ये मा॑घा॒यव॑ प्र॒तीच्याः॑ दि॒शोऽभि॒दासा॑त् ||
19.18.6
अ॒पस्त ओष॑धीमतीरृछन्तु | ये मा॑घा॒यव॑ ए॒तस्या॑ दि॒शोऽभि॒दासा॑त् ||
19.18.7
वि॒श्वक॑र्माणं॒ ते स॑प्तऋ॒षिव॑न्तमृच्छन्तु | ये मा॑घा॒यव॒ उदी॑च्या दि॒शोऽभि॒दासा॑त् ||
19.18.8
इन्द्रं॒ ते म॒रुत्व॑न्तमृच्छन्तु | ये मा॑घा॒यव॑ ए॒तस्या॑ दि॒शोऽभि॒दासा॑त् ||
19.18.9
प्र॒जाप॑तिं॒ ते प्र॒जन॑नवन्तमृच्छन्तु | ये मा॑घा॒यवो॑ ध्रु॒वाया॑ दि॒शोऽभि॒दासा॑त् ||
19.18.10
बृह॒स्पतिं॒ ते वि॒श्वदे॑ववन्तमृच्छन्तु | ये मा॑घा॒यव॑ ऊ॒र्ध्वाया॑ दि॒शोऽभि॒दासा॑त् ||