Atharvaveda 19.17

सुरक्षा।

19.17.1

१-१० अथर्वा | मन्त्रोक्ताः | जगती, ५, ७, १० अतिजगती, ६ भुरिक्, ९ पञ्चपदाऽतिशक्वरी | अ॒ग्निर्मा॑ पातु॒ वसु॑भिः पु॒रस्ता॒त् तस्मि॑न् क्रमे॒ तस्मिं॑छ्रये॒ तां पुरं॒ प्रैमि॑ | स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ||

1 / 1

Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch

Source text

Complete verse transcript

Source: DharmicData / AtharvaVeda (Sanskrit text)

This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.

19.17.1

१-१० अथर्वा | मन्त्रोक्ताः | जगती, ५, ७, १० अतिजगती, ६ भुरिक्, ९ पञ्चपदाऽतिशक्वरी | अ॒ग्निर्मा॑ पातु॒ वसु॑भिः पु॒रस्ता॒त् तस्मि॑न् क्रमे॒ तस्मिं॑छ्रये॒ तां पुरं॒ प्रैमि॑ | स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ||

19.17.2

वा॒युर्मा॒न्तरि॑क्षेणै॒तस्या॑ दि॒शः पा॑तु॒ तस्मि॑न् क्रमे॒ तस्मिं॑छ्रये॒ तां पुरं॒ प्रैमि॑ | स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ||

19.17.3

सोमो॑ मा रु॒द्रैर्दक्षि॑णाया दि॒शः पा॑तु॒ तस्मि॑न् क्रमे॒ तस्मिं॑छ्रये॒ तां पुरं॒ प्रैमि॑ | स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ||

19.17.4

वरु॑णो मादि॒त्यैरे॒तस्या॑ दि॒शः पा॑तु॒ तस्मि॑न् क्रमे॒ तस्मिं॑छ्रये॒ तां पुरं॒ प्रैमि॑ | स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ||

19.17.5

सूर्यो॑ मा॒ द्यावा॑पृथि॒वीभ्यां॑ प्र॒तीच्या॑ दि॒शः पा॑तु॒ तस्मि॑न् क्रमे॒ तस्मिं॑छ्रये॒ तां पुरं॒ प्रैमि॑ | स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ||

19.17.6

आपो॒ मौष॑धीमतीरे॒तस्या॑ दि॒शः पा॑न्तु॒ तासु॑ क्रमे॒ तासु॑ श्रये॒ तां पुरं॒ प्रैमि॑ | ता मा॑ रक्षन्तु॒ ता मा॑ गोपायन्तु॒ ताभ्य॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ||

19.17.7

वि॒श्वक॑र्मा मा सप्तऋ॒षिभि॒रुदी॑च्या दि॒शः पा॑तु॒ तस्मि॑न् क्रमे॒ तस्मिं॑छ्रये॒ तां पुरं॒ प्रैमि॑ | स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॑ परि॑ ददे॒ स्वाहा॑ ||

19.17.8

इन्द्रो॑ मा म॒रुत्वा॑ने॒तस्या॑ दि॒शः पा॑तु॒ तस्मि॑न् क्रमे॒ तस्मिं॑छ्रये॒ तां पुरं॒ प्रैमि॑ | स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ||

19.17.9

प्र॒जाप॑तिर्मा प्र॒जन॑नवान्त्स॒ह प्र॒तिष्ठा॑या ध्रु॒वाया॑ दि॒शः पा॑तु॒ तस्मि॑न् क्रमे॒ तस्मिं॑छ्रये॒ तां पुरं॒ प्रैमि॑ | स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ||

19.17.10

बृह॒स्पति॑र्मा॒ विश्वै॑र्दे॒वैरू॒र्ध्वाया॑ दि॒शः पा॑तु॒ तस्मि॑न् क्रमे॒ तस्मिं॑छ्रये॒ तां पुरं॒ प्रैमि॑ | स मा॑ रक्षतु॒ स मा॑ गोपायतु॒ तस्मा॑ आ॒त्मानं॒ परि॑ ददे॒ स्वाहा॑ ||