19.19.1
१-११ अथर्वा | चन्द्रमाः, मन्त्रोक्ताश्च | पङ्क्तिः १, ३, ९ भुरिग्बृहती, १० स्वराट्, २, ४-८, ११ अनुष्टुगर्भा | मि॒त्रः पृ॑थि॒व्योद॑क्राम॒त् तां पुरं॒ प्र ण॑यामि वः | तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु ||
शर्म।

1 / 1
Scroll wheel or ↑ ↓ keys move between shlokas · swipe on touch
Source text
Source: DharmicData / AtharvaVeda (Sanskrit text)
This reader preserves the available Sanskrit and attributed translation. A modern interpretation is shown only when reviewed text exists in the source record.
19.19.1
१-११ अथर्वा | चन्द्रमाः, मन्त्रोक्ताश्च | पङ्क्तिः १, ३, ९ भुरिग्बृहती, १० स्वराट्, २, ४-८, ११ अनुष्टुगर्भा | मि॒त्रः पृ॑थि॒व्योद॑क्राम॒त् तां पुरं॒ प्र ण॑यामि वः | तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु ||
19.19.2
वा॒युर॒न्तरि॑क्षे॒णोद॑क्राम॒त् तां पुरं॒ प्र ण॑यामि वः | तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु ||
19.19.3
सूर्यो॑ दि॒वोद॑क्राम॒त् तां पुरं॒ प्र ण॑यामि वः | तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु ||
19.19.4
च॒न्द्रमा॒ नक्ष॑त्रै॒रुद॑क्राम॒त् तां पुरं॒ प्र ण॑यामि वः | तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु ||
19.19.5
सोम॒ ओष॑धीभि॒रुद॑क्राम॒त् तां पुरं॒ प्र ण॑यामि वः | तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु ||
19.19.6
य॒ज्ञो दक्षि॑णाभि॒रुद॑क्राम॒त् तां पुरं॒ प्र ण॑यामि वः | तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु ||
19.19.7
स॒मु॒द्रो न॒दीभि॒रुद॑क्राम॒त् तां पुरं॒ प्र ण॑यामि वः | तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु ||
19.19.8
ब्रह्म॑ ब्रह्मचा॒रिभि॒रुद॑क्राम॒त् पुरं॒ प्र ण॑यामि वः | तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु ||
19.19.9
इन्द्रो॑ वी॒र्ये॒३णोद॑क्राम॒त् तां पुरं॒ प्र ण॑यामि वः | तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु ||
19.19.10
दे॒वा अ॒मृते॒नोद॑क्रामं॒स्तां पुरं॒ प्र ण॑यामि वः | तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु ||
19.19.11
प्र॒जाप॑तिः प्र॒जाभि॒रुद॑क्राम॒त् तां पुरं॒ प्र ण॑यामि वः | तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु ||